SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३६४ घ्याश्रयमहाकाव्ये [कुमारपालः] ५६. अब्जवने पद्मखण्डमध्ये सुध्रुवां वाणि सांशयिकानि किमेतानि वक्राण्यन्जानि वेति संशयं प्राप्तान्यासन् । केषाम् । तुरायणं नाम यज्ञस्तं यजन्ते तौरायणिकाः पारायणं वेदग्रन्थमधीयते पारायणिका द्वन्द्वे तेपां मुनीनाम् । कीदृशाम् । सा नदी भूः स्थानं येषां तेषामपि नदीतटवासित्वेन परिचिताजानामपीत्यर्थः । एतेन सुभ्रूवाणामन्जवनस्य च मिथोतिसादृश्यमुक्तम् । तौरायणिक । पारायणिकानाम् । अत्र “तुरायण." [ ९२ ] इत्यादिनेकण् ॥ सांशयिकानि । इत्यत्र “संशयं." [ ९३] इत्यादिना-इकण ॥ यौगिकी पद्ममाला काप्यक्षिपद्दयितोरसि । सांग्रामिकं कार्मुकं नु योग्यं कुसुमधन्वनः ॥ ५७ ॥ ५७. यो(यौ)गिकी प्रौढात्वेन योगायालिङ्गनाय शक्ता कापि दयितोरसि प्रियकण्ठे पद्ममालोमक्षिपन् । किंभूताम् । आरोपिताकृष्टचापाकारत्वाद्धृदयसंक्षोभकारित्वाच्च कुसुमधन्वनः पुष्पचापस्य कार्मुकं नु । किंभूतम् । सांग्रामिकं संग्रामाय शक्तमत एव योगाय शक्तं योग्यं ग्रहीतुमुचितमित्यर्थः ॥ यौगिकी । सांप्रामिकम् । अत्र "तसै योग." [ ९४ ] इत्यादिनेकण् । योग्यम् । कार्मुकम् । अत्र “योग०" [ ९५ ] इत्यादिना योको । १ वी सी सि । संग्रा. १सी ने वनषण्ड. २ बी कान्यजा'. ३ बी 'णिका पा. ४सी मते. ५ वी "णिके द. ६ सी द्वन्द्वं ते'. ७सी म्। सा. ८ ए यण्य .. ९ सीण् । योगि'. १० ए की प्रोढा. ११ सी य सक्ता. १२ बी ला. नक्षि. १३ ए 'कृष्णचा. १४ ए कार्मकं. १५ सी कं अत्र. १६ बी 'चितुमि. १७. ए बी तसौ यो'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy