________________
(है. ६.३.३६.] सप्तदशः सर्गः।
३६५ वा नु श्रो(स्रो?)तोमार्गस्य रुद्धत्वात्पश्चान्मुखं वहन्त्यत एव पुरेवं यथा जलकेलेः पूर्वमौत्तरपथिकी कान्तारपथिकी चोत्तरपथेनोत्तरदिग्मार्गेण कान्तारपथेन चारण्यमध्यवाहित्वादरण्यस्थमार्गेण वा नीता। तथा जलकेलिकालेप्युत्तरपथेन कान्तारपथेन च यात्यौत्तरपथिकी कान्तारपथिकी च ॥ पथिकान् । इत्यत्र "पथ इकद" [ ८८ ] इतीकट् ॥ पान्थाः । अत्रे "नित्यं०" [ ८९ ] इत्यादिना णः पन्थादेशश्च ॥ शाकुपथिकम् । औत्तरपथिकी । कान्तारपथिकी। भाजपथिकम् । वारिपथिकाः । स्थालपथिकम् । जाङ्गलपथिकान् । इत्यत्र “शत्तर०" [१०] इत्यादिनेकण् ॥
कान्तनोत्खातपछेषु काप्याच्छिद्याब्जमाददे ।
मधुके मरिचे स्थालपथे शुल्कं नु शौल्किकः ॥ ५५॥ ५५. कापि कान्तेनोत्खातपछेषु मध्यादब्जमाच्छिद्य नर्मणोहाल्याददे । यथा स्थालपथे स्थलेपथेनाहृते मधुके मधुयष्टिजातौ मरिचे मरिचजातौ च मध्याच्छुल्कं शुल्कशालादेयं भागं शौल्किकः शुल्के नियुक्तो गृह्णाति ॥ स्थालपथे मधुके मरिचे । अत्र "स्थलादे०" [ ९१ ] इत्यादिना ॥
तौरायणिकपारायणिकानां तद्भुवामपि । आसन्सांशयिकान्यजवने वक्राणि सुभ्रुवाम् ॥ ५६ ॥
१ बी जयने. २५ °णि शुभ्रु'.
१ सी नु श्रुतो'. २ए °व जथा. ३ ए °रमार्गे'. ४ सी च उत्त. ५ एत्र मित्या. ६ ए "देश्च. ७सीम् । उत्त. ८ सी गोमाल्या. ९ बी लपंथे'. १० बी सी नाहते.