SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३६६ व्याश्रयमहाकाव्ये [कुमारपाल : ] स्तरुण्यश्च श्रान्तान् यूनो जहसुः । यथा पान्था नित्यं पन्धानं यान्तो नरा नित्यगमनेन गमनाभ्यासादश्रान्ताः सन्तः पथिकान्पन्थानं यातो नरान्कादाचित्कगमनेनाभ्यासाभावाच्छ्रान्तान्सेतो हसन्ति । यथा वा वारिधिका वारिपथः सजलमार्गस्तेनानीता यान्तो वा नराः शीतलजलपानादिनाश्रान्ताः सन्तो जाङ्गलपथिकान्मरुमार्गेणानीतान्यातो वा नरांस्तृष्णादिनातिश्रान्तान्सतो हसन्ति ॥ प्रावृषीव तदोद्रोधो भूत्स्थाल पथिकं पयः । तदाजपथिकं शाङ्कुपथिकं च विगाहनात् ॥ ५३ ॥ ५३. तदा जलकेलिकाले तत्पयो नदीजलं विगाहनाद्दम्पतिमिर्विलोडनादुद्रोधो रोधसस्तटादुक्रान्तमभूत् । कीटैक्सत् । स्थालपथिकं स्थलपथं यात्तथार्जपथिकं यत्राजाः संचरन्ति तेजपथा दण्डकास्तैर्यात्तथा शङ्कुपथैः कीलकगर्ताभिर्यात् । यथा प्रावृषि स्थालपथिकमाजपथिकं शाङ्कुपथिकं च स्थलपथेनाजेपथेन शङ्कुपथेन चानीतं नदीजलमतिबाहुल्यादुद्रोधः स्यात् ॥ पुरेवौत्तरपथिकी कान्तारपथिकी च सा । मज्जज्जम्पतिभिस्तैस्तैर्नदी रेजे प्रतीपगा ॥ ५४ ॥ ५४. सा नदी रेजे । कीदृक्सती । तैस्तैरनेकैर्मज्जजम्पतिभिः स्नाद्भिर्दम्पतिभिः कृत्वा प्रतीपगा जम्पतीनामतिबाहुल्येन सेतुबन्धेन १ एकीच. २ ए बी 'तैर्न'. १ ए यान्तो न. स्था ५ सी ९ ए 'जलप°. १३ बी प्रदीप.. २ एन्सन्तो ह. ३ सी यातो बा. ६ ए 'जजप'. ७ ए बी कं यात्रा. ११ ए 'कैमब्ज'. १० बी 'लवा". ४ ए कान्गरु". ८ सी स्थैर्या'. १२ बी 'भिः स्त्रद्धि'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy