________________
[ है• ६.४.७७.] सप्तदशः सर्गः।
३६१ ४६. प्रस्तारो नयनादीनां विस्तारस्तस्मिन्व्यवहरति तया प्रास्तारिक्या विशालाक्ष्येत्यर्थः । कयापि पतिरूचे । कीहक्सन् । दृशोविस्तीर्णत्वेन वारि क्षिपन् । कथमूच इत्याह । त्वं किं नु लोहप्रस्तारे लोहहट्टे व्यवहरति लौहप्रस्तारिकोसि । लोहवणिम् हि स्थूलक्रयाणत्वाल्लोहं यत्र तत्र क्षिपन्स्थूलहस्त एव स्यात् । किं वा गोसंस्थाने व्यवहरति गौसंस्थानिको गवयोसि । स ह्यकिंचिज्ज्ञ एव स्यादिति ।।
कापि वांशकठिनिकी वारिहत्याधिका प्रियात् ।
द्वैचन्द्रायणिकी चान्द्रायणिक्या इव वाभवत् ॥४७॥ ४७. वाशब्दः पूर्ववाक्यापेक्षया समुच्चये कापीत्यत्र योज्यः । कापि च वंशकठिने वंशस्य कठिने तापसभाजने पीठे वा व्यवहरति वांशकठिनिकी वरुटी वारिहत्या जलाघातेन कृत्वा प्रियात्सकाशादधिकाभवत् । यथा चान्द्रायणिक्याश्चान्द्रायणं तपोभेदं चरन्याः सकाशाद्वैचन्द्रायणिकी द्वे चन्द्रायणे चरन्ती रुयधिका स्यात् । चन्द्रायणं हि तपो द्वधा । तत्रैकं शुक्लपक्ष आरभ्यते द्वितीयं तु कृष्णपक्षे । द्वयमप्येतन्मासप्रमाणम् । तत्राद्ये शुक्लप्रतिपद आरभ्य पूर्णिमां यावदेकैककवलवृद्धिर्यावत्पूर्णिमायां पञ्चदश कवलास्तत एकैकैकवर्लंहानिर्यावदमावास्यायामेकः कवलः । द्वितीये तु चन्द्रायणे कृष्णप्रतिपद
१ बी वाचिंह'. २ सी 'रिसत्या'. ३ ए त् । देच'.
१ सी या प्रस्ता. २ बी लाक्षेत्य'. ३ ए °मूचेत्या'. ४ बी णकत्वा'. ५ सी स्थानो ग. ६ ए °ठिनता. ७ बी पीठो व्य'. ८ बी सी यासका. ९ बी की दै चौ. १० बी °णे भोजने पीठो वा च. ११ सी °त् । चान्द्रा. १२ ए कव. १३ बी माया प. १४ बी कला तत ए°. १५ ए कव'. १६ सी लवृद्धौ.