________________
[है. ६.४.७५.] सप्तदशः सर्गः ।
३५९ क्ष्मां नावयज्ञिकी पाकयज्ञिकी च द्विजा यथा । अहतेच्छो आतरिकैर्नार्योगाहन्त निम्नगाम् ॥४३॥ ४३. नार्यों निम्नगामगाहन्त व्यलोडयन् । कीदृश्यः सत्यः । आतरिकैरातरे नद्यादितीर्थे नियुक्तैनरैरहतेच्छा अयं नदीप्रवेशोवगाह्य इत्यस्खलिताभिलाषाः । यथा द्विजा ऋत्विजोहतेच्छाः सन्तो यागक्रियाभिः क्ष्मामवगाहन्ते । किंभूताम् । नवयज्ञा नवैरत्नैः साध्या योगा अस्यां वर्तन्ते तां नावयज्ञिकी तथा पाकयज्ञः पाकेन हविर्विशेषेण साध्यो यज्ञोस्यां तां पाकयज्ञिकीम् । नावयज्ञिकीम् । पाकयज्ञिकीम् । अत्र "नवयज्ञ." [७३] इत्यादिनेकण् ॥ आतरिकैः । अत्र "तत्र." [ ७४ ] इत्यादिनेकण् ।
सरायुधागारिकाणां वारिघातैः सरायुधैः । युवानो मुमुहुस्तासां साध्यिकाशुचिका इव ॥ ४४ ॥ ४४. साध्यिकाशुचिका इव यथा संध्यायामध्यायिनोशुचौ देशेध्यायिनश्चाकालादेशाध्ययनोत्थेन विनेन मुह्यन्ति तथा तासां स्त्रीणां वारिघातैः कृत्वा युवानो मुमुहुर्मूर्छिताः। यतः स्मरायुधैर्विशेष्यार्थानुकूल्येनात्र स्मरायुधशब्देनोपचारात्स्मरायुधधाता उच्यन्ते । तेन कामशरप्रहारतुल्यैः । कीदृशीनाम् । स्मरायुधागारिकाणां स्मरस्यायुधानि जलक्रीडास्तेषामगारं गृहं नदी तत्र नियुक्तानाम् । जलकेलि
१बी °च्छा या आ. २ बी सी सांधिक्याशु. ३ ए सी व । य.
१५°वीधनि. २ बी सी शोनाव'. ३ ए यागो अ. ४ एशोस्या तो. ५ बी देशोध्या'. ६ ए ‘शेध्ययि". ७ ए बी सरायु'.