SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ (है. ६.४.४९. सप्तदशः सर्गः। ३५१ शाब्दिक्याम् । दादरिक्या । लालाटिकम् । कौकुटिकम् । इत्येते "शाब्दिक." [४५] इत्यादिना निपात्याः ॥ काचित्सामाजिकान्सैन्यान्पारिषद्याश्च सैनिकीः । पार्षद्या रञ्जयामास स्रजं गीतिं च गुम्फती ॥ ३०॥ ३०. काचित्सामाजिकान्समाज समवेतान्सभास्थान्सैन्यान्सेनां समवेतान्सेनानरांस्तथा पारिषेद्याः परिषदं समवेताः सैनिकीश्च सेनां समवेताः स्त्रीश्च रजयामास । कीटक्सती। पर्षदं समवैति पार्पद्या सभायां निषण्णा तथा लज गीतिं च गुम्फती रचयन्ती ॥ सामाजिकान् । इत्यत्र “समूह." [ ४६ ] इत्यादिनेकण् ॥ पार्षद्या । इत्यत्र “पर्षदो ण्यः' [ ४७ ] इति ण्यः ॥ परिषच्छब्दादपीच्छन्त्येके । पारिषद्याः ॥ सैन्यान् । इत्यत्र “सेनाया वा" [ ४८ ] इति वा ण्यः ॥ पक्षे । सैनिकीः ॥ आधर्मिक्या आपणिक्यास्तस्या धार्मिक देह्यदः । ऊचे स्रजोर्पयन्दृष्टकक्षानख इनोन्यया ॥ ३१ ॥ ३१. अन्ययेनो भर्ताद एतत्कर्मोचे । तदेवाह । हे धार्मिक धर्म न्यायं चरन्नुपहासवचनमिदम् । तस्याः स्वप्रियायाः स्रजो देहि । कीदृश्याः । आपणिक्या आपणस्य हट्टस्य धायाः पण्याङ्गनाया अत एवाधर्मिक्या अधर्म पापमाचरन्त्या इति । कुतोयमूचेद इत्याह । यतो १ सी क्या । ललाटि'. २ए पद्याः प. ३ सी निकैश्च. ४ बी वेता स्त्री'. सी वेतांश्च र. ५ ए मवेति. ६ सी द्याः स. ७बी पन्ना त?. सी षण्णाः त. ८ ए दिनाक'. ९ए रिच्छ. १० बी सी निकी । आ. ११ एह । धा. १२ सी धर्म्य न्या. १३ ए °याया स्र. १४ बी वाधार्मि. १५ सी तो हेतोय.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy