________________
३५०
व्याश्रयमहाकाव्ये
[कुमारपालः]
काचिन्माशब्दिकी शाब्दिक्यामप्याल्यां लतान्तरे ।
नैत्यशब्दिकवाचालसपत्या अंशृणोद्वचः ॥२८॥ २८. काचिल्लतान्तरे लतामध्ये नित्यशब्द इति ब्रूते नैत्यशब्दिको मीमांसकस्तद्वद्वाचाला या सपनी तस्या वचोशृणोत् । किमेपा पत्युरग्रे वक्तीत्याकर्णयन् । कीटक्सती । शाब्दिक्यामपि वैयाकरणीत्वेनाविनष्टं शब्दमुच्चारयन्त्यामप्याल्यां सख्यां विषये माशब्दिकी माशब्द इति ब्रुवाणा मा शब्दः क्रियतामिति त्रुवाणेत्यर्थः ॥
लालाटिकं कौकुटिकं दादरिक्या सह स्थितम् । प्रियं दृष्ट्वा लतान्तः काप्यबध्नाल्लतयैव हि ॥ २९ ॥ २९. कापि कोपातिरेकेण बन्धनान्तरग्रहणे कालक्षेपासहिष्णुत्वाल्लतयैव प्रियमबध्नान् । किं कृत्वा । लतान्तर्दादरिक्या दर्दरो घटो वादित्रं च । तत्र वादित्रं कुर्वत्येवमुच्यते । तया सह स्थितं दृष्ट्वा । यतः कौकुटिकं दाम्भिकचेष्टा कुक्कुटी तामाचरन्तं मायिनं तथा ललाटं पश्यति ललाटदर्शनेन दूरावस्थानं लक्ष्यते तेनं च कार्येष्वनुपस्थानं यः प्रियो दृष्टं प्रियाललाटमिति दूरतो याति न तु तदभिप्रेतकार्य उपतिप्ठते स एवमुच्यते । ललाटमेव वा कोपप्रसादज्ञानाय यः पश्यति स ल(ला)लाटिकस्तम् ॥ माशब्दिकी । नैत्यशब्दिक । इत्यत्र "माशब्द." [ ४४ ] इत्यादिनेकण् ॥
१बी'न्यल्यां. २ वी सी असृणो'. ३ ए के ददारि. ४ बी दादरि.
१ ए 'स्तका'. २ वी चोमणो. ३ ए यः । ललाटिं'. ४ सी दरो'. ५ वी 'दरा घटा वा'. ६ सी त्रं कुवित्य . ७ ए चेष्टां कु. ८ सी नं यः. ९ सी 'न का. १० एनं प्रि. ११ सी यादृष्टं प्रियाल. १२ सी ‘दनामा यः. १३ ए °य यत्पश्य'.