SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ [है. ६.४.४३.] सप्तदशः सर्गः। ३४९ २६. कस्याश्चिन्नार्याः पतिः सौनातिकः सुनातं पृच्छन्नभवत् । यतः खिन्नाङ्गयाः । कुत एतदित्याह । लतामध्ये पुष्पोचयनार्थ पादविक्याः पदवीं मार्ग धावन्त्याः। कीडक्सन् । नर्मकर्मठो हास्यक्रियायां साधुस्तथानुपदिकोनुपदं पदस्य पश्चाद्धावन्प्रत्यासत्त्या धावन्नित्यर्थः । स्विन्नाङ्गी प्रियां दृष्ट्वा पतिर्दास्येन सुस्नातं पप्रच्छेत्यर्थः ॥ सौखशय्यिक्यभूत्पत्युः शय्यां निर्माय पल्लवैः । प्राभूतिकवैचित्रिकसौवस्तिकस्य काचन ॥ २७ ॥ २७. काचन पल्लवैः शय्यां निर्माय पत्युः सौखशय्यिक्यभूत् । हे भर्तः सुखकारिणी शय्येति प्रपच्छेत्यर्थः । यतः प्राभूतिकवैचित्रिकसौवस्तिकस्य प्रेमातिरेकेणातिवैदग्ध्येन चानेकचाटुकारवकोत्तयादिभाषित्वात्प्रभूतं विचित्रं स्वस्ति च शुभं च ब्रुवाणस्य ।। पारदारिक । साभर्तृकिक । इत्यत्र “पर०" [३८] इत्यादिनेकण् ॥ प्रतिपथिकाम् । प्रातिपथिकः । अत्र "प्रति." [३९] इत्यादिनेकेकणौ ॥ दाण्डमाथिकी । पादविक्याः । आन्दिकी । इत्यत्र "माथ." [४०] इत्यादिनेकण् ॥ आनुपदिकः । अत्र “पश्चाति०" [ ४१] इत्यादिनेकम् ॥ सौखातिकः । सौखशय्यिकी । अत्र "सुनात." [ ४२ ] इत्यादिनेकण् ॥ प्राभूतिक । वैचित्रिक । इत्यत्र “प्रभूत." [ ४३ ] इत्यादिनेकण् ॥ क्रियाविशेषणादयमिष्यते । कचिदंक्रियाविशेषणादपि । सौवस्तिकस्य । '१५ सौख्यशक्य. २ बी य्यिकभू. ३ सी 'त्युः सौख. ४ ए वैः । वयभू. १५ नव. २ बी शय्यक्य . . ३ बी सुखिका. ४ एरियं याति प. ५ बी र्तृक. ६९ सी थिक । अं. ७सी क्रन्दकी. ८ सी ग् । प्रा. ९५ दवि.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy