________________
३४८
ध्याश्रयमहाकाव्ये
[कुमारपालः] २४. अन्ययेड् भर्ता चिक्षिपे नजं ददन्निरस्तः । कथमित्याह । हे पारदारिक परस्त्रियं गच्छंस्तथा हे साभर्तृकिक सपत्नी गच्छन्ननया ते तव स्रजा ममालं सृतं किं त्वनया सजा कृत्वा प्रतिपथिकी (कां) कुलटात्वेन प्रतिपथं पन्धान पन्थानं प्रति गच्छन्तीं तो स्वप्रियां स्वमनोभीष्टां परदारादिकां भूषयेति ।।
मुधास्याक्रन्दि की दाण्डमाथिकी त्वां लताधिया ।
यत्प्रातिपथिको नालिस्त्यक्तेत्यन्या सखीमशात् ॥ २५ ॥ २५. अन्या सखीमशादवदत् । कथमित्याह । हे सख्यसि त्वमलिभयेन मुधा निरर्थकमाक्रन्दिक्याक्रन्दन्ति यत्र स देश आन्द आक्रन्द्यत इति वाकन्द आर्तायनं शरणमुच्यते । तं धावसि । तथा दाण्डमाथिकी माथशब्दः पथिपर्यायो दण्ड इव माथो दण्डमाथ ऋजुमार्गस्तं च मुधी धावसि । यद्यस्मादलिस्त्वां लतोधियानेकपुष्पमालापरिधानेन पुष्पगन्धोद्धरत्वाल्लतेयमिति बुद्ध्या न त्यक्ता न यक्ष्यतीति ।
पाद विक्या लतामध्ये स्विन्नाङ्गया नर्मकर्मठः । कस्याश्चिदानुपदिकः पतिः सौनातिकोभवत् ॥ २६ ॥
१ बी थिके ना'. २ ए लिस्तत्केत्य'. ३ सी त् । यतः.
१एक स्त्रि. २ बीते नव. ३ ए त्वा पति'. ४ बी सी तिपंथं. ५ सीन्थानी ग'. ६ ए "नं ग. ७ ए सी च्छन्ती तां. ८ बी तां प्रि. ९ए टां पार. १० ए दिकं भू'. ११ ए वत्. १२ बी मभिलये. १३ सीन्दिनी आक्र. १४ ए क्रन्य. १५ सी आता. १६ ए ण्डमाथ. १७ ए जुर्मार्ग०. १८ बी धाव'. १९ बी ताधेया'. २० ए बी त्यक्षति.