________________
[है० ६.४.३८.] सप्तदशः सर्गः।
३४७ की दशभिरेकादश दशैकादशास्तान्न गृह्णामि सा तु त्वद्वल्लभा दशैकादशिका सैव त्वत्तोलंकारादि ग्रहीतुं तव पुष्पदानाद्युपचारं करोत्यह त्वकृत्रिमप्रेम्णैव ते पुष्पाणि ददामीत्यभिप्राय इति ॥
कुसी दिक । इत्यत्र "कुसीदादिकंद" [ ३५] इतीकट् ॥ दशैकादशिका । दशैकादशिकी । इत्यत्र “दश०" [३६] इत्यादिनेक इकट् च ॥
आर्थिकी पादिकी चार्धपदिक्यपि च नावदत् । काचिल्लालामिकपातिकण्ठिकाद्वित्रसन्त्यलेः ॥ २३ ॥ २३. काचिन्नावदत् । किंभूता । आर्थिक्यप्यर्थं गृहत्यपि प्रयोजनवत्यप्यत एव पादिक्यपि चार्धपदिक्यपि च पदमर्धपदं वा मनसा गृह्णत्यपि विवक्षुरपीत्यर्थः । तर्हि कुतो नावददित्याह। यतोलेवित्रसन्ती भणने मुखसौरभाकृष्टोयमोष्ठादि मा दशदिति बिभ्यती यतो ललामं तिलकं गृह्णाति लालामिकः स चासौ प्रातिकण्ठिकश्च प्रतिकण्ठं कण्ठं लक्ष्यीकृत्य पुष्पमालादि गृहंस्तस्मात्तिलककण्ठमालादिगन्धलोभेन मुखान्तिके भ्राम्यत इत्यर्थः ॥
आर्थिकी । पादिकी । आर्धपदिकी । लालामिक । प्रातिकण्ठिकात् । इत्यत्र "अर्थ." [ ३७ ] इत्यादिनेकण् ॥
पारदारिक साभदृकिकालं ते सजानया । भूषय प्रतिपथिकां तामितीट् चिक्षिपेन्यया ॥ २४ ॥
१ बी आथिकी'. २ बी च न व. ३ बी यति प्रो.
१ सी लाति सा. २ ए सी नादत्युप. ३ एकती. ४ बी गृह्णात्य. ५ एर्धपादि. ६ ए मा दिश. सी मा देश. ७ ए 'ति ललामि'. ८ ए बी लक्षीकृ. ९ए °स्तस्तस्मा'. १० सी 'दिलो'. ११ ए की । अर्ध'. १२ बी र्धपादि.