SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३४६ व्याश्रयमहाकाव्ये [कुमारपालः] पाक्षिक । मात्सिक । मार्गिकैः । अत्र “पक्षि." [३१] इत्यादिना-इकण् ॥ अर्थग्रहणात्तत्पर्यायेभ्यो विशेषेभ्यश्च स्यात् । खागिकः । मैनिकः । सौकरिकः ॥ पारिपन्थिकः । अत्र "परि०" [ ३२ ] इत्यादिनेकण् ॥ पत्या द्वैगुणिकेनेवान्या पारिपथिकी वजम् । दत्त्वाल्पां प्रार्थ्यतानल्पां वृद्धिं गृह्णाति लोभ्यहो ॥२१॥ २१. पारिपथिकी पन्थानं वर्जयित्वा व्याप्य वा तिष्ठन्त्यन्या पत्यानल्पां महती स्त्र प्रार्थ्यत । किं कृत्वा । अल्पां लैप्वी स्रज दत्त्वा द्विगुणं गृह्णाति द्वैगुणिकस्तेन यथाल्पं दत्त्वाधर्मों बहु याच्यते । युक्तं चैतत् । यस्माल्लोभी वृद्धि कलान्तरं गृह्णाति । अहो इत्यामन्त्रणे ॥ पारिपथिकी । इत्यत्र “परिपथात्" [ ३३ ] इतीकण् ॥ द्वैगुणिकेन । इत्यत्र “अवृद्ध०" [३४] इत्यादिनेकण् ॥ अवृद्धेरिति किम् । वृद्धिं गृह्णातीति वाक्यमेव ॥ दशैकादशिकी नालि दशैकादशिका तु सा । कुसीदिकेति जल्पन्ती पत्ये पुष्पाणि काप्यदात् ॥ २२ ॥ २२. कापि पत्ये पुष्पाण्यदात् । कीहक्सती। जल्पन्ती क्षणमियमीया करोत्विति प्राक्पुष्पाण्यनाददानं शठं पतिं वदन्तीत्यर्थः । कथमित्याह । कुसीदं वृद्धिस्तदर्थं द्रव्यमपि कुसीदं तेद्गृह्णाति यस्तत्संबोधनं हे कुसी. दिक त्वं हि स्वयं कलान्तराजीवी ततो मामप्यात्मसदृशीमाशंय त्वं मत्तः पुष्पाणि नादत्से तत्त्वयुक्तमेवेत्यर्थः । यतोम्यहं न दशैकादशि १बी प्रार्थिता. १ सी °णात्प. २ बी सौरि'. ३ बी लवीश्रजं. ४ बी सी मणे ब'. ५ ए वृद्धिक. ६ ए वृद्धिर्°. ७ ए अत्रवृ. ८.सी ति वाक्पु. ९ए त गृला. १० एशङ्का त्वं.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy