SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३४५ [है. ६.४.३०.] सप्तदशः सर्गः । पत्या नागरिकेणान्यान्वीयते स वने ह्यसौ । मा भैषीद्भीषणेसिन्पाक्षिकमात्सिकमार्गिकैः ॥१९॥ १९. अन्या नागरिकेण नगरं रक्षता तलारेण पत्या भ; वनेन्वीयते स्मानुगम्यते स्म । हेतुमाह । अस्मिन्वनेसौ · मत्प्रिया मा भैषीत् । यतः पाक्षिकमात्सिकमार्गिकैः पक्षिणो मत्स्यान्मृगांश्च नद्भिलुब्धकधीवरैः कृत्वा भीषण इति ॥ मैनिकः खौगिकोसौ सौकरिकः पारिपन्थिकः । इत्युक्त्वा भेषयन्कान्तोपस्रजा सखजेन्यया ॥२०॥ २०. अन्ययापस्रजा पुष्पोच्चयाकरणात्पुष्पमालारहितयैव सत्या कान्तः सखजे । यतो भेषयन् भेषग् भये णिगन्तः । प्रियामेव भाययन् । किं कृत्वा । उक्त्वा । किमित्याह । हे प्रियेसौ प्रत्यक्षो मीनान्खगान्सूकरांश्च नल्ल(लँ)ब्धकः परिपन्थं पन्थानं वर्जयित्वा तिष्ठति पन्थानमेंभिव्याप्य हन्ति वा पारिपन्थिकश्चोरोस्तीति ॥ अनौजसिकः । साहसिकः । आम्भसिकः। अत्र "ओजः" [२७] इत्यादिनाइकण् ॥ प्रातिलोमिकः । आनुलोमिके । प्रातीपिकी । अनान्वीपिकी । प्रातिकूलिक्याः । आनुकूलिकी । इत्यत्र "तं प्रति०" [२८] इत्यादिनेकण् । पारिमुखिकी । पारिपाश्विके । अत्र "परे' [२९] इत्यादिनेकण् ॥ नागरिकेण । पौष्पिकी । इत्यत्र "रक्षदुल्छतोः" [३०] इतीकण् । १बी न्यानीय'. २ बी स्मिन्माक्षि. ३ बी खानिकोसो सोक'. १बी पसृजा. २ बी सी भापयन्. ३. ए ह । प्रि. ४ बी सी धं परिप. ५ ए मस्तिव्या. ६ए वा परि'. ७ ए कः । आ. ८ ए 'नान्वपि. ९५ पाश्विके. १० सी विकी। . ११बी पौषिकी.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy