SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३४४ व्याश्रयमहाकाव्ये [ कुमारपालः ] गोत्रस्खलितापराधं कुर्वतापीत्यर्थः । यतः कीटक् । प्रौढा । प्रौढा हि गम्भीराशयत्वेन गूढाकारेङ्गिता स्यात् । यदुक्तम् । लब्धायतिः प्रगल्भा रतिकर्मणि पण्डिता विभुर्दक्षा आक्रान्तनायकमना नियूंढविलासविस्तारा ।। सुरते निराकुलासौ द्रवतामिव याति नायकस्याङ्गे ___ न च तत्र विवेक्तुमलं कोयं काहं किमेतदिति ॥ तत्र कुपितापराधिनि संवृत्याकारमधिकमाद्रियते । कोपमपह्रत्यास्ते धीरी हि रहस्युदासीना ।। इति । अपारिमुखिकी पारिपार्श्विकेन्यानुलोमिके । पत्यौ हासादनान्वीपिक्यक्षिपत्पौष्पिकी स्रजम् ॥ १८ ॥ १८. अन्या पत्यौ हासान्नर्मणा स्रजमक्षिप कण्ठे चिक्षेप । कीहक्सती । अनान्वीपिकी न प्रतिकूलं वर्तमानानुरक्तेत्यर्थः । अत एवापारिमुखिकी । परिर्वजनेत्र । न मुखं वर्जयित्वा वर्तमाना संमुखी. नेत्यर्थः । तथा पुष्पाण्युञ्छति पौष्पिकी पुष्पाण्युच्चिन्वती । पत्यौ च किंभूते । आनुलोमिकेनुकूलं वर्तमानेनुरक्त इत्यर्थः । अत एव पारिपाविके । परिः सर्वतोभावेत्र । यतो यतः प्रियासमीपं ततस्ततो वर्तमाने सदा पार्श्वस्थे । ८४ • १ सीढा हि गभीराश्रय'. २ ए लन्धय'. ३ बी यतिप्र. ४ ए °ममा नि. ५ सी तेन नि. ६ ए नायिक. ७ सी स्यान्ते । न. ८ सी राधनि. ९ सी रापि र. १० एत् कं चि. ११ ए सी एव पा. १२ बी वापर'. १३ बी सी रिवर्ज°. . १४ बी ने च न.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy