________________
। है. ६.४.२७.] सप्तदशः सर्गः।
३४३ भस्त्रिकात् । अंशभारिकात् । इत्यत्र "भस्रादेरिकट" [ २४ ] इतीकद ॥ विवधिकी । वीवधिके । अत्र "विवध." [२५] इत्यादिनेकड्वा ॥ पक्षे । इकणे। वैवधिक ॥ कौटिलिकीभूय । इत्यत्र "कुटिलिकाया अण्" [२६] इत्यण् ॥
आम्भसिकानौजसिको मरुदप्रातिलोमिकः । अमूः साहसिको भूत्वा समस्माक्षीच्छ्रमश्लथाः ॥१६॥ १६. मरुद्वातः श्रमश्लथाः पुष्पोच्चयोत्थखेदेन निःसहा अमूः कामिनीः समस्पाक्षीत् । कीदृक् । अम्भसा वर्तत आम्भसिकः सजलकणः से चासौ न ओजसा बलेन वर्ततेनौजसिकश्च मृदुः स तथा । तथा न प्रतिलोमं वर्ततेप्रातिलोमिकः पृष्टवाहित्वेनानुकूलः । किं कृत्वास्पृशत् । सहसा वर्तते साहसिकः परदारस्पर्शोत्थस्यायतौ विनिपातस्यानालोचकत्वादविमृश्यकारी पारदारिक इव भूत्वा । साहसिक एव हि स्मरोद्रकोत्थस्वेदेनाम्भसिकोनौजसिकोप्रातिलोमिकश्च सन् परनारीः स्पृशति ॥
गोत्रं पुष्पार्पणे प्रातिकूलिक्या गृह्णतापरा ।
प्रातीपिक्यानुकूलिक्याज्ञायि प्रौढा पियेण न ॥ १७ ॥ १७. प्रियेणापरा कामिनी प्रतीपं वर्तते प्रातीपिकी प्रतिकूलानुकूलं वर्तत आनुकूलिक्यनुकूला वा नाज्ञायि । कीदृशा । पुष्पार्पणे प्रातिकूलिक्याः प्रतिकूलं वर्तमानायाः सपत्न्या गोत्रं नाम गृह्णतोच्चारयता
१ ए बी "कूलक्या. १बी विविधि'. २ बी विविध. ३ सी ण् । कौटलि'. ४ ए क । कैटि'. ५ बी स वाष्णो न. ६ सी °था न. ७ ए "सिकानौ . ८ए पं पर्वते.