________________
३४२
ज्याश्रयमहाकाव्ये
[कुमारपालः]
श्रान्तसख्या वाहिकादानान्मार्गदायिनी स्वयं भूत्वा । तथा भस्त्रिकाद्भस्त्रया दृतिना जलं हरतो भृत्यादेरम्बु गृहीत्वा । किंभूतात् । अंशो भागभूतो भारो जलभारोंशभारस्तेन हरत्यंशभारिकस्तस्माहितीयेन सहाम्बुभारं वहत इत्यर्थः ॥
काप्यवीवधिके कुजे नीत्वा वैवधिकच्छलात् ।
कांचित्कौटिलिकीभूय प्रियो भ्रमयति प्रियाम् ॥ १५ ॥ १५. कांचित्प्रियां प्रियो भ्रमयति नर्मणेतस्ततो नयति तत्कालापेक्षया वर्तमाना। किंकृत्वा । वैवधिकच्छलान्मार्गेण नेतुश्छलादहमत्र मार्गेण नेतास्मीति व्याजादित्यर्थः । कापि कुजे वनगहने नीत्वा। किंभूते । अत्यन्तं वृक्षादिभिर्गुप्तिलत्वान्नास्ति वीवधिको मार्गेण नेता यत्र तस्मिन् खिल इत्यर्थः । तथा कौटिलिकीभूय कुटिलिकाशब्देनाग्रे 'वक्री लोहादिमय्यङ्गाराकर्षणी यष्टिर्वा कुटिला गतिर्वा पलालोत्क्षेपणोग्रे वक्रो दण्डो वा परिव्राजकोपकरणभेदो वा चौराणां नौगृहाचारोहणार्थ दामाग्रप्रतिबद्ध आयसोर्धाडशो वोच्यते । यथा कर्मारकर्षकपरिव्राजकचौरा अङ्गारपलालपुष्पनावः . कुटिलिकया हरन्त्येवं वैवधिकच्छलेन प्रियाया आकर्षकीभूयेत्यर्थः । यद्वा कुटिलिकया कुटिलगत्या हॉरकीभूय ॥ १ए चित्कोटिकी . २ बी सी कौटलि.
१ सी ख्या बाहिं'. २ ए वाहनादा'. ३ बी सी र्गनायि'. ४ बी तो तृत्त्वादे'. सी तो दे'. ५ ए बी तुच्छला. ६ ए °ण नोता. बीण नैता. ७ बी जे ग. ८ बी सी गुपिल'. ९ए °स्मिन्नखि. सी स्मिनखि'. १० सी कोटलि': ११ ए टिकी. १२ सी टिलका. १३ बी वका लो'. १४ ए 'का लेहा'. १५ बी 'कर्षिकी. १६ ए त्यर्थे । य. १७ बी टिलाग'. २८ ए सी हारिकी.