________________
[ है. ६.३.१९४.] षोडशः सर्गः। अभूष्यताब्जर्जलमत्र वाररुचैः सुवाक्यैरिव पाणिनीयम् । सन्माक्षिकं नु प्रियसारघाणां पेयं नृणां मानसवारितुल्यम् ॥९२॥
९२. अत्र शरदि जलमब्जैरभूष्यत । कीदृक् । मनसा कृतं मानसं सरस्तस्य यद्वारि तत्तुल्यमगस्त्युदयेनातिनिर्मलमित्यर्थः । अत एव नृणां कर्तरि षष्टी । नरैः पेयं यथा प्रियं सरघाभिर्मधुमक्षिकाभिः कृतं सारघं मधु येषां तेषां सच्छोभनं माक्षिकं मक्षिकाभिः कृतं मधु पेयं स्यात् । यथा मानसवारितुल्यमपशब्दमलरहितत्वेन विशुद्धमत एव नृणां पेयं श्रोतव्यं पाणिनीयं पाणिनेन पाणिनिनावोपज्ञातं व्याकरणं वाररुचैर्वररुचिना कृतैः सुवाक्यैः कर्तृभिरभूष्यत ।।
पाणिनीयम् । अत्र "उपज्ञाते" [ १९१ ] इति यथाविहितं दोरीयः ॥ वाररुचैः । मानस । इत्यत्र “कृते" [१९२] इत्यण् ॥ कृते ग्रन्थ एवेच्छन्त्यन्ये । तन्मते तु कृतेर्थे मानसेति न स्यात् ॥
माक्षिकम् । सारघाणाम् । अत्र "नान्नि० " [ १९३ ] इत्यादिना ॥ असावचीणमिवान्यदुज्झन्ती सर्वचर्मीण इवाजकोशे । चिक्षेप लक्ष्मी शरदम्बु कौलालके क्षिपेद्वारुटके न कश्चित् ॥९३॥
९३. शरदन्यदजकोशादितरत्पुष्पमुझन्ती सती लक्ष्मी सौरभविकाशादिशोभामटजकोशे पद्मकुड्मले चिक्षेप । अन्योपि हि लक्ष्मी कोशे भाण्डागारे क्षिपति । शरदि ह्यन्जकोशेन्यपुष्पेभ्यः सर्वेभ्योप्यतिशयिता श्रीः स्यात् । यथा कोचिन्नायिकासार्वचर्मीणं सर्वश्चर्मणा १ए दुह्यन्ती. ९ ए °क्ष्मी सर'. ३ ए के पे'. १ए । सर. २ ए तं सरपं ये'. ३ ए पेयश्रो'. ४ ए °णिने. ५ सी यः । वेर. ६ बी सी ते कृ. ७ ए घाणम्. ८ ए भवका. ९ बी अमुकुले. १० सी यि श्रीः. ११ सी कापि नायि.