SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३२८ व्याश्रयमहाकाव्ये [ कुमारपाल: ] कृतेः सार्वचमणो न तथासार्वचर्मणस्तं वस्त्रादिकृतं कोल्थेलिकादिमसारत्वेन पाटनभयादुज्झन्ती सती सर्वचमणे दाव (ब?)डीत प्रसिद्धायां चर्ममय्यामाभरणकरण्डिकायां लक्ष्मीमलंकारादिऋद्धिं क्षिपति । युक्तं चैतत् । यतः सर्वोपि कश्चिदम्वु कौलालके कुलालेन कृते घटघटीशरावादिभाण्डे क्षिपेन्न तु कश्चिद्वारुटके वरूटेन कृते सूर्पपिटकपटलिकादौ भाण्डे ॥ कौलालके । वारुटके । अत्र “कुलालादेरकञ्” [ १९४ ] इत्यकञ् ॥ सर्वचमणे । असार्वचर्मीणम् । अत्र “सर्व ० " [ १९५ ] इत्यादिनेन ईनञ् च ॥ अथ हेमन्त शिशिरौ ॥ येनौरसोरस्यविरिञ्चिपुत्राः सौभद्रविज्योतिषवेदिनश्च । तैरप्यतर्क्यप्रभवो हिमर्तुश्छन्दस्यवद्वारि हिमं चकार ॥ ९४ ॥ । ९४. हिमर्तुः शीतकालो हेमन्तः शिशिरश्च वारि हिमं शीतलं चकार । कीदृक् । अतर्क्यप्रभवो कस्मादाविर्भवनेनाज्ञेयोत्पर्त्तिकः । कैः । तैरपि य उरसा कृता औरसा न तथानौरसा मानसाः सनकाद्यास्तथोरस्या उरसा कृताः स्वाङ्गोद्भवाः काश्यपाद्या द्वन्द्वनौरसौ (सो) रस्या ये विरिश्चिपुत्रा विधिपुत्रा मुनयोर्भूवंस्तथा ये सौभद्रविज्योतिपवेदिनश्च सुभद्रामर्जुनपत्नीमधिकृत्य कृतं ग्रन्थं ये विदन्ति ये च ज्योतींष्यधिकृत्य कृतं ग्रन्थं विदन्ति ये महाज्ञानपात्राणीत्यर्थः । छन्दस्यवत् । 97 २ बी च्छन्द. २ सी लकादिकम. ६ सी तिकालः । कैः . १ ए बी 'विरञ्चि', १ सी 'तः सर्व'. स्वर्ष ं. ५ सी प्रभावो . ८.९ भूवस्त' ३ बी 'णे डाव'. सी 'भूवन्ये तथा १० सी . ४ ए ७ ए बी वाः कश्य. न्थं वा ये. ११ सी ये म.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy