SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ [ है. ६.३.१८७.] षोडशः सर्गः। ३२५ प्रोक्तान्वेदान्विदन्त्यधीयते वा ये तैः खाण्डिकीयादिभिरिव । खाण्डिकीयादयो हि तत्तद्वेदपाठकाले प्रणदन्ति ॥ पाणिनीय । इत्यत्र "तेन प्रोक्ते" [१८१] इति यथाविहितं दोरीयः ॥ मौदाः । जाजलाः । अत्रै “मौदादिभ्यः" [ १८२ ] इत्यण् । कठकर्कराः । अत्र "कठादिभ्यो वेदे लुप्" [१८३ ] इत्यणो लुप् ॥ तैत्तिरीयाः । वारतन्तवीयाः । खाण्डिकीयौखीयैः । अत्र "तित्तिरि." [१८४ ] इत्यादिना-ईयण ॥ छागलेयिभिः । इत्यत्र “छगलिनो णेयिन्" [ १८५] इति णेयिन् ॥ शौनकिभिः । वाजसनेयिभिः । इत्यत्र "शौनकादिभ्यो णिन्" [१८६] इति णिन् ॥ शैलालिनः काश्यपिनश्च कौशिकिनश्च पाराशरिणश्च भिक्षोः । सत्पैङ्गिकल्पार्थविदश्च वाग्नु सद्योवदाता कुमुदालिराभात् ॥९०॥ ९०. सद्यः शरत्कालप्रादुर्भावक्षण एव कुमुदालिराभाब्यकसदित्यर्थः । कीदृशी। अवदाता निर्मला वाग्नु यथा वाग्वाण्यवदातापशब्दादिदोषमलरहितत्वेन शुद्धा स्यात् । कस्य कस्येत्याह । शिलालिना प्रोक्तं नटसूत्रं काश्यपेन प्रोक्तं पुराणं कल्पं कौशिकेन प्रोक्तं पुराणं कल्पं पारास(श)र्येण प्रोक्तं भिक्षुसूत्रं वेत्त्यधीते वा यस्तस्य शैलालिनः काश्यपिनश्च कौशिकिनश्च पाराशरिणश्च भिक्षोस्तथा पिङ्गेन प्रोतः पुराणेः कल्पः पैङ्गिकल्पः सञ् शोभनो यः पैङ्गिकल्पस्तस्यार्थं वेत्ति यस्तस्य च ॥ १ ए बी सत्पेङ्गि'. १बी त्तथेद. २ बी यः । मोदाः. ३ बी सीत्र मोदा. ४ए अथ की. ५ ए खाडिकी. ६ बी योखी'. ७ सीण् । कर्करा। छा'. ८ ए णेयन्. ९ सी ति णोयन्. १० एयः सर. ११ ए शिकेन. १२ बी °णः पुराणः क. १३ बी यः पि लि. १४ बी स्य स । पै.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy