________________
३२२
ब्याश्रयमहाकाव्ये
[कुमारपालः]
केतरैः शाकैलकेभ्यो लक्षणाङ्केभ्योन्यैरन्यमुनिसत्कैर्लक्षणाकैः कृत्वाशाकलाञ् शाकलेभ्यः संघघोषेभ्योन्यान्संघघोषाञ्जना जानन्ति ।।
अशाकलान् । शाकलकान्संघघोषान् । शाकलैः । शाकलैक । इत्यत्र “शाकलादकञ्च" [१७३ ] इत्यण् अकञ्च ॥
आग्नीध्र । इत्यत्र "गृहे." [१४] इत्यादिना रण अन्तर्वं च तृतीयबाधनाथ धादेशः ॥ तत्केतकं रथ्ययुगं नु नव्यं धूर्वय्यरथ्या नवकन्दली च । रथ्यो द्विरथ्यस्त्रिरथो नु वाश्वः पौरस्त्यवातश्च मनोभुवोभूत्॥८६॥
८६. तत्सौरभश्चैत्यादिगुणैः प्रसिद्ध केतकं केतकीपुष्पं मनोभुवः कामस्य नव्यं रथ्ययुगं रथसत्कयूपमिवाभूत् । तथा नवकन्दली च भूतनाङ्क(?)रजातिवनस्पतिभेदो वा मनोभुवोत्र्यरेथ्याश्यः प्रधानं यो रथस्तदीया धूरिवाभूत् । यथा पौरस्त्यवातश्च पूर्ववायुश्च मनोभुवोश्वो न्वभूत् । कीदृशोश्वः । रथ्यो द्विरथ्यखिरथो वा महाबलत्वेन रथस्य द्वयो रथयोस्त्रयाणां रथानां वा वोढा । वर्षासु हि श्वेतकेतकं नवकन्दली पूर्ववातश्च स्युस्तत्र केतकस्य रथ्ययुगाकारत्वान्नवकन्दल्याश्च धुराकारत्वात्पौरस्त्यवायोश्चाति वेगत्वेनाश्वतुल्यत्वात्सर्वेषां चैषामुद्दीपनविभौवत्वान्मनोमुवाध्यासितस्य जगजनचित्तरंथस्य संक्षोभहेतुत्वाच्चैवमाशङ्का । मनसि प्राणिनां चित्ते भवति तिष्ठति मनोभूस्तस्य मनोभुव
१ ए रम्ययु. २ ए वाश्व पौ'.
१ बी कलांके'. २ बी कान् । शाकलकान्सं. ३ सील । ई. ४ सी लादिक. ५ ए हेत्या'. ६ बी "स्य तृ. ७ बी रथयु. ८ सी तनांति. ९ बी रथोग्यः. १० ए °धानयो. ११ ए 'त्सवैषां मु. १२ ए °मा सि प्रा. १३ सी रथ्यस्य. १४ सी महसा.