________________
३१० व्याश्रयमहाकाव्ये
[कुमारपालः] सन्त इत्यर्थः । तथा मल्लिकाघ्रास्तदातिसुलभत्वादतिसुरभित्वाच्च विचकिलपुष्पाणि जिवन्तः ॥ वैरं नु दैवासुरमप्रशान्तो राक्षोसुरं वाजनि मन्मथोत्र । झगित्यनाट्यानपि नाट्यमध्यापयन्दधत्पाटलचापयष्टिम् ॥ ८१ ॥
८१. अत्र ग्रीष्मे झगिति ग्रीष्मर्तुप्रादुर्भावकाल एव मन्मथोप्रशा. न्तः सदोद्दीप्तोजनि । दैवासुरं राक्षोसुरं वा वैरं नु यथा देवानामसुराणां चे रक्षसामसुराणां च संबन्धि वैरं शावतिकवैरत्वात्कदापि न प्रशान्तं स्यात् । कीदृशः सन् । पाटलायाः पुष्पं पाटलं प्रीष्मे हि पाटला पुष्प(ष्प्य?)ति । तदेव चापयष्टिस्तां दधंदत एव नास्ति नाट्यं नटानां धर्म आनायः संघो वा येषां ताननाट्यानपि नाट्यरहितान्मुन्यादीनपि नाट्यं नटानां नृत्तं स्मरोद्रेकोत्थं सविलासभ्रत्क्षेपादिकमध्यापयन् । योपि नाट्योपाध्यायः स्यात्सोपि शिक्षायष्टिं दधदनाट्यान्नाट्यानमिज्ञानाट्यमध्यापयञ् शिक्षाग्राहणायानुपशान्तः स्यादित्युक्तिः ॥ छान्दोग्ययाज्ञिक्यमपास्य बाइच्यौक्थिक्यमाथर्वणकाठकं च । असिन् शिरीषैर्दभुः स्रजो दण्डमाणवा अन्तसदश्च कावाः॥८२॥
८२. अस्मिन्प्रीष्मे काण्वाः काव्यस्यर्षेरिमे दण्डमाणवा आश्रमिणां रक्षापरिचरणार्थी दण्डप्रधाना माणवा अन्तसदश्चाध्ययनार्थाः शिष्याश्च सुरभित्वादतिशीतत्वाच्च कण्ठादौ न्यासाय शिरीषैः शिरीषवृक्षपुष्पैः सजो दभुनन्ति स्म । ग्रीष्मे हि शिरीषाः पुष्प(ब्य?)न्ति । किं १बी न्तो रक्षो'. २ ए वाक्षनि. ३ ए योनु । झ: १५ सी विचिकि. २ बी पुष्पाणि. ३ सी ग्रीष्म , ४ ए मे रिगि.बी मे दिगि'. ५ सी च सं. ६ सी श्वतवै. ७सी दृक् पा. ८ ए सी लाया पु. ९बी पुष्पं पा. १० बी सी धत. ११ सी 'नां नृस्मरों'. १२ ए धना. १३ सी काण्वस्य'. १४ सी णार्थद. १५ एर्था शि. १६ बी सी शिक्षाश्च.