________________
[है• ६.३.१६१.] षोडशः सर्गः।
३१७ ७९. निदाघेतिशीतलत्वात्सेव्यमभूत् । किं किमित्याह । वैडूर्यनीलं विडूरात्पर्वतात्प्रभवति वैडूर्यों मणिस्तद्वन्नीलं हरितवर्ण कदलीगृहं तथा त्यन्मयः कदल्याः प्रभवन्ननिलो वायुस्तथा तन्मयं कदल्याः प्रभवदासनं च तथा नादेयं नद्याः सैक्त(त्क?)मम्भस्तथा नवमालिका च सप्तला च । किंभूता । अतिसौग्नी(नी)रदा झुनस्येयं स्रौनी स्त्री तस्या रदान्दन्ताम् शौक्ल्येनातिक्रान्ता ॥
वैडूर्य । इति “वैडूर्यः " [१५] इत्यनेन निपात्यम् ॥ त्यन्मयः । तन्मयम् । अत्र "त्यदादेर्मयट्" [१५९] इति मयः ॥
स्रोग्नी(मी) । नादेयम् । अत्र "तस्येदम्" [१६०] इति यथाविहितं प्रत्ययाः ॥ द्राग्घालिकाः सैरिकपर्षदासीनाः साम(मि)धेनीविदुषो हसन्तः । कथा अकुर्वन्कुरुवृष्णिकाश्वावराहिकाणामिह मल्लिकाघ्राः॥८॥
८०. इह निदाघे हलस्येमे हालिका हलधराः कुरूणां वृष्णीनां च विवाहाः कुरुवृष्णिकास्तथा शुनां वराहाणां च युद्धानि श्वावराहिका द्वन्द्वे तासां कथा द्वाग्मूर्खत्वेन वचनपल्लवनाशक्तेरविलम्बितं तदा कृषिकर्माभावेन निष्प्रयोजनवादकुर्वन् । किंभूताः । सीराणामिमे सैरिका हलधरास्तेषां परिषत्सभा तत्रासीनास्तथा समिधामाधानी ऋक् साम(मि)धेनी तत्र विदुषो ज्ञान्द्विजान्हसन्तः । केलिप्रियत्वात्स्वरविशेषेणागुलीरचनाविशेपेण च साम(मि)धेनीः पठतो द्विजांस्तदनुकरणेनोपह
१बी 'दल्या प्र. २ ए सी दल्या प्र. ३ ए सकम'. ४ ए लुगमस्ये. ५ ए यं सौग्नी स्त्री . ६ सी सौग्नी स्त्री. ७ सी ञ् शैत्येना'. ८ बी 'यः । त्यन्म. ९ए °ट् । सोग्नी. १० बी नां वि. ११ सी नि सावं. १२ ए निष्प्रयो'. बी निःप्रयो'. १३ बी समाधे'.