________________
३१६
ब्याश्रयमहाकाव्ये [ कुमारपालः] वैदं च विदस्यःरपत्यानि वृद्धानि विदास्तेभ्य आगतं च नयं ब्रह्मचर्यादिधर्मानुष्ठानरूपं न्यायं विमोच्य त्याजयित्वा । माधवी वसन्ते पुष्प. (प्प्य?)ति निकामं मुनीनामपि कामोद्दीपिका च स्यादित्येवमुत्प्रेक्षा ॥
पापीयवत्पापमयान्यपापरूप्याण्यजाननु फलान्यनङ्गः । विभेद यूनां हृदयान्यशङ्कः शक्रद्विपो हैमवतीतटीर्वा ॥७॥
७८. अनङ्गो यूनां हृदयानि बिभेद शरैरताडयत् । कीडक्सन् । पापमयानि पापाद्धेतोरागतान्यपापरूप्याणि च धर्मादागतानि च फलान्यशुभशुभरूपाणि कार्याण्यजानवमन्यमान इव । पापीयवत्पापाद्धेतुभूतादागतः पापीयः पापिष्ठो नास्तिकादिर्यथा पापमयान्यपापरूप्याणि च फलानि न मन्यते। अत एवाशङ्कः पापभयरहितः । यथा शक्रद्विपोशङ्कः सन्हिमवतः प्रभवति हैमवती गङ्गा तस्यास्तटीस्तटानि भिनत्ति। वाशब्द उपमायाम् ॥
वैदम् । अत्र “गोत्रादकवत्" [१५५] इत्यण ॥ अद्विजरूप्य । द्विजमयी । द्वैजम् ॥ हेतु । अपापरूँप्याणि । पापमयानि । पापीयवत् । इत्यत्र "नृहेतुभ्यः०" [ १५६ ] इत्यादिना वा रूप्यमयटौ ॥ हैमवती । इत्यत्र "प्रभवति" [ १५७ ] इत्यण ॥
___ अथ निदाघः ॥ वैडूर्यनीलं कदलीगृहं त्यन्मयोनिलस्तन्मयमासनं च । नादेयमम्भो नवमालिकार्तिस्रोग्नी(मी)रदा सेव्यमभून्निदाघे ७९
१ए तिसौग्नी. १५दस्या'. २ सी मर्माधर्मानु. ३ सी का च. ४बी प्रेक्ष्या। पा. ५ बीतानि आपा. ६बी जास्तस्या. ७ बी रूपाणि. ८ सी पापी. ९ए पीव. १० सीण् । .