________________
[ है. ६.३.१५५.] षोडशः सर्गः।
३१५ वणिग्नु पित्र्यापणिकैर्हिरण्यैर्मर्द्विजः पैतृकहौतकैर्नु । अभादशोकः कुसुमैरनृत्यत्तानिलैः शौण्डिकवच्च सद्यः ॥७६॥
७६. कुसुमैः कृत्वाशोकोभात् । यथा वणिम् हिरण्यैर्धनैर्भाति । किंभूतैः । पित्र्यापणिकैः पितुरागतैः पित्र्यैः कुलक्रमागतैरापणादागतैराणिकैः स्वयमुपार्जितैश्च । यथा वा मत्रैर्द्विजो भाति । किंभूतैः । पैतृकहौतृकैः पितुझेतुश्च यायजूकादागतैः । तथा सद्योशोकस्तानिलैस्तीर्थान्नद्यवतारादागतैर्वातैः कृत्वानृत्यच्च ननैर्तेव च । शुण्डिकः सुरापणः सुराविक्रयी वा तस्मान्मद्यपानं कृत्वागतः शौण्डिको मद्यपो यथा नृत्यति ॥ पित्र्य । पैतृक । इत्यत्र "पितुर्यों वा" [१५१] इति वा यः ॥ हौतृकैः । पैतृक । अत्र "ऋत इकण्" [१५२] इतीकण् ॥ आपणिकैः । अत्र "भायस्थानात्" [१५३] इतीकण् ॥ शौण्डिक । तैर्थ । इत्यत्र “शुण्डिकादेरण्" [१५४] इत्यण् ॥ द्वैजं च वै(बै?)दं च नयं विमोच्य द्विजान्नयन्त्यद्विजरूप्यकर्म । क नु क्रिया वो द्विजमय्यनिद्रेरितीव माधव्यहसीत्प्रसूनैः ॥ ७७॥
७७. माधवी कुन्दलतानिदैविकसितैः प्रसूनैः कृत्वा द्विजानहसीदिव । कथमित्याह । हे द्विजा वो युष्माकं द्विजमयी द्विजेभ्य आगता क्रिया ब्रह्मचर्यादिका क नु कस्मिंस्थानेस्तीति । यतः । कीदृशी। माधवी। द्विजान् द्विजेभ्य आगतं द्विजरूप्यं न तथा यत्कर्म तद् ब्राह्मणानुचितां कामचेष्टां नयन्ती । किं कृत्वा । द्वैजं च द्विजेभ्य आगतं च
१ बी कहोतृकै'. २ ए कर्म । क. ३ ए व मध्ये न्य'. १ए °णिकैपि. २ बी पणकैः. ३ बी कहोतृ. ४ बीनवर्ते'. ५ बी च । शोण्डिकवत् शु. ६ ए 'ति । पैन्य. ७ बी तैर्थ्य । . ८बी देरित्य. ९ बी मादवी.