SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये छन्दस्यशैक्षार्गयनान्नं नो पौरोडाशिकं वा जगुरौत्सशिष्याः । पैतृव्यकाचार्य कभीमुचस्तु स्वैरं विजहुर्ब कुलावलोकात् ।। ७५ ।। ३१४ 3 ७५. औत्सशिष्या औत्साः पाठार्थमुत्सदेशादर्बुद आगतीरछात्रा न जगू रागविशेषपूर्वं न पेठुः । कान् । छन्दस्यशैक्षार्गयनान् छन्दसो वेदस्य शिक्षाया वर्णप्रतिपादकग्रन्थस्य ऋगयनस्य वैदिकग्रन्थभेदस्य च व्याख्यानांस्तत्र भवान्वा ग्रन्थान् । पौरोडाशिकं वा पुरोडाशानां पिष्टपिण्डानामयं तत्र भवो वा पौरोडाशस्तत्संस्कारको मन्त्रस्तस्य व्याख्यानस्तत्र भवो वा यो ग्रन्थस्तं वा नो जगुः । यतः । किंभूताः । बकुलावलो - कात्केसरपुष्पेक्षणात्कामपरवशत्वेन पि (वै) तृव्यकाचार्यकभी मुँचः पितृव्यादाचार्याच्चागतां भियं मुञ्चन्ति ये ते तथा । तर्हि किं चक्रुरित्याह । तु किं तु स्वैरं विजहुर्वनादिषु ललनाभिः सह चिक्रीडुः ॥ ५ वासिष्ठिकाध्याय । इत्यत्र "ऋषेरध्याये” [ १४५ ] इतीकण् ॥ पुरोडाशिके । पुरोडाश कि । पौरोडाशिकम् । अत्र " पुरोडाश०" [ १४६ ] . इत्यादिनेकेकटौ ॥ छन्दस्य । इत्यत्र “छन्दसो यः " [ १४७ ] इति यः ॥ [ कुमारपालः ] २ एन पौ. २ बी पौराडा. ६ए मुचापि. शैक्षार्गयनान् । इत्यत्र “शिक्षादेश्वाण" [ १४८ ] इत्यण् ॥ औत्स । इत्यत्र "तत आगते” [ १४९ ] इति यथाविहितोञ् ॥ विद्यासंबन्ध । आचार्यक ॥ योनिसंबन्ध | पैतृव्यक । इत्यत्र “विद्या० " [ १५० ] इत्यादिनाकञ् ॥ १ बी यमत्ते नो. १ बी 'ताछात्रा. ५ बी 'केशर'. ९ बी 'दिना कक. ३ बी पौराडा". ३ ए पिष्टापि . ७ बी किं चि .. · ४ बी पौराडा. ८ बीह । किं.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy