SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३१२ व्याश्रयमहाकाव्ये [कुमारपालः अस्य कुमारपालस्यान्तःपुरिकादिलोकमन्तःपुर एकपुरुषपरिग्रहे स्वीसमूह उपचारात्तन्निवासे वा भवा आ(अ)न्तःपुरिका राज्यस्तत्प्रभृतिस्त्रीलोकं ज्ञात्वेव । किंभूतम् । औपनीविक्या नीवीसमीपे प्रायेण भवया ऋजुस्रजा सरलपुष्पमालया रिरंसुम् ॥ पारिमुख्यैः । आनुपथ्यैः । इत्यत्र "परि०" [ १३६ ] इत्यादिना भ्यः ॥ आन्तःपुरिकैः । अत्र “अन्तः०" [ १३७ ] इत्यादिनेकण् ॥ पारिग्रामिकैः । आनुग्रामिक । इत्यत्र “पर्यनो मात्" [ १३८] इनीकण् ॥ औपजानुक । औपनीविक्या । औपकर्णिक (क्या)। इत्यत्र "उपाजानु०" [ १३९] इत्यादिना-इकण् ॥ अन्तःपुरिका । इत्यत्र “रूढौ०" [१४० ] इत्यादिनेकः ॥ कर्णिकासु । ललाटिका । इत्यत्र “कर्ण०" [ १४१ ] इत्यादिना कल् ॥ अथ वसन्तर्तुमारभ्य सर्वनामाविर्भावं वर्णयति । पिकोथ कार्वाचिकपाश्चहोतृकतार्किकाख्यातिकसहितेषु। विघ्नो मुनीनां सहवाजपेयिकेषु व्यकूजन्नवचूतमत्तः ॥ ७३ ॥ ७३. अथ पिको व्यकूजव्यक्तं शब्दमकरोत् । कीदृक्सन् । मुनीनां विन्नः स्मरोद्दीपकत्वेनोन्मनीकारकत्वादन्तरायभूतः । केपु विषये[पु] । कार्तार्चिकपाञ्चहोतृकतार्किकाख्यातिकसाहितेपु कृतां तथा ऋचां मत्रविशेषाणां तथा पञ्चसु होतृषु भव इत्यणो लुपि पञ्चहोता ग्रन्थभेदस्तस्य तथा तर्काख्यातसंहितानां व्याख्यानानि यद्वा कृतादिषु भवानि व्याख्यानानि तेषु । किंभूतेषु । सह वाजपेयिकेषु वाजपेयस्य यज्ञस्य व्याख्यानं तत्र भवं वाजपेयिकं तेन युक्तेषु । यतः कीदृक् । नवचूतमत्तः प्रत्यग्राम्रफैलास्वादनेन मत्तः ॥ १बी जुश्रजा. २ बी रंशुम्. ३ वी 'नोग्रामा'. ४ थी ये कर्ता'. ५ बी कृदादिपु व्या. ६ वी सी स्य व्या'. ७ सी पेयकं. ८ ए °यिकां ते. ९ सी फलस्खा
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy