SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ [है. ६.३.१३६.] षोडशः सर्गः। ३११ रिमुख्यानि तैरतिबाहुल्येन गिरेः सर्वमुखेषु भवैर्लोकारोहाद्यर्थं गिरिमुखं पद्यां वर्जयित्वा भवैर्वेत्यर्थः । तथान्तःपुरिकैः पुरस्यान्तनगरमध्यभागे भवैगुहैरिव विस्तीर्णत्वस्वर्णकलशोल्लोचचित्रपताकाद्युपेतत्वादिना नगरगर्भस्थधवलगृहतुल्यै रित्यर्थः ॥ अथावसत्तत्र चमू सधान्यानुग्रामिकक्षेत्रभुवोभिरक्षन् । दृशौपकणिक्य ऋजूल्लसन्त्यौपजानुकोद्दामभुजो नरेन्द्रः।।७१॥ ७१. अथ नरेन्द्रस्तत्र वर्णासातदेवसत् । कीदृक् । औपजानुको प्रलम्बत्वाजान्वोः समीपे प्रायेण भवावुद्दामौ भुजौ यस्य सः । तथा सधान्या सस्याव्यानुग्रामिकी ग्रामसमीपे भवा या क्षेत्रभूस्तस्याः सकाशाचरभिरक्षन्धान्यविनाशाभावाय निवर्तयन्सन् । कया कृत्वा । दृशा दृष्ट्या । कीदृशा। औपकर्णिक्यातिविस्तीर्णत्वेन कर्णसमीपे प्रायेण भवया तथा ऋजूल्लसन्त्या कोपादिविकाराभावेनाकुटिलं यथा स्यादेवं रक्षासंज्ञार्थमूभिवन्त्या ॥ रिरंसुमन्तःपुरिकादिलोकमयो(स्यौ)पनीविक्य ऋजुस्रजाथ । ज्ञात्वेव वन्यास्वगकर्णिकाK ललाटिकेवर्तव आविरासन् ॥७२॥ ७२. अथर्तवो वसन्ताद्याः सर्वेप्याविरासन् । कीशः । अगस्यार्बुदस्य विभूपकत्वात्कर्णिकासु कर्णाभरणतुल्यासु वन्यासु वनानां समूहेषु ललाटिकेव शोभाहेतुत्वाल्ललाटमण्डनतुल्याः । ललाटिकापि कर्णिकासु मध्ये शोभाविशेषाप्त्याविर्भवति । किं कृत्वेवाविरासन् । १बी णिक्या क्र. २ बी सन्त्योप. ३ बी रंशुम'. ४ सी सु लाला. ५ ए बी केवात. १बी गिरेमु. २ बी चविचि सी चप'. ३ बीना नाग'. ४ बी यस्या सः. ५ बी मूभि. ६ बी दृष्टयाः । कीदृश्यौप. ७ बी रक्ष्यासं. ८ ए °दृशोस्या'. ९ सी तुल्या । ल.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy