________________
३००
व्याश्रयमहाकाव्ये [ कुमारपालः] पूर्वाह्नकोस्सिन्नपरालकैन प्रदोषकोवस्करकाकाभ्याम् । यक्षरमावास्यकपन्थकामावास्यैः सुरः खेलति मूलकश्च ॥ ५५ ॥ . ५५. स्पष्टः । किं तु पूर्वाह्नकादीनि नामानि । पूर्वाह्ने जात इत्यादिनिरुक्तिः कार्या ॥
पूर्वाह्नकः । अपराह्नकेन । आईकाभ्याम् । मूलकः । प्रदोषकः। अवस्करक । इत्यत्र “पूर्वाह्न." [ १०२] इत्यादिनाकः ॥ पन्थक । इत्यत्र “पथः पन्थ च" [ १०३ ] इत्यकैः पन्थादेशश्च ॥
अमावास्यैः। अमावास्यक । इत्यत्र "अश्व०" [ १०४ ] इत्यादिना-अ-अकौ वा । पसे । भ(आ)मावास्यैः ॥ आषाढ्यषाढं बहुलं श्रविष्ठाषाढीयमन्तस्तरु फल्गुनी च । श्राविष्ठयनूराधमिहामरी श्राविष्ठीय ऋच्छत्यथ फाल्गुनं च ॥५६॥
५६. इहार्बुदेषाढाभिश्चन्द्रयुक्ताभिर्युक्तः कालोषाढास्तासु जाताषाढी नामामरी देव्यषाढमषाढासु जातं देवमन्तस्तर वृक्षखण्डमध्य ऋच्छति क्रीडायै गच्छति । तथा श्रविष्ठा धनिष्ठासु जातामरी बहुलं कृत्तिकासु जातं देवमृच्छति । तथा फल्गुनी च फल्गुन्योर्जाता चामर्याषाढीयं देवमृच्छति । श्राविष्ठी चानूराधमृच्छति । अथ तथा श्राविष्ठीया फाल्गुनं चर्च्छति ॥
१ए विष्ठी'.
१बी स्पष्टम् । किं. २ ए दीना ना. ३ सी दिनिरु. ४ सी पन्था'. ५ ए कः पन्थः ५. ६ बी पथादें. ७ बी र्युक्तका. ८सी लोप्यषा'. ९बी देन्याषाढमाषाला. १०बी षण्ड'. ११ सीस. .