SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ [ है० ६.३.१०१.] षोडशः सर्गः । २९९ कालेयवत्स्रौमवधूषु शारदकेष्विव प्रावृषिकाब्दवृष्टिः । ससिन्धुकापात्करिकापकर्या च सैन्धवीहाप्सरसो विभान्ति ॥५४॥ ५४. इहार्बुदेप्सरसो विभान्ति स्वर्गेपि दुर्लभैस्तैस्तैः शाद्वलवनखण्डादिरम्यैः क्रीडास्थानविशेषैविशेषितत्वाच्छोभन्ते । काः कास्तत्राह । ससिन्धुका सिन्धौ जाता सिन्धुका नाम देवी तया युक्तापात्करिकापकरे कचवरे जाताकरिकाख्या देवी तथापकर्यैवंनाच्या देव्या सह सैन्धवी चैवं नानी देवी चेति । यथा स्रौत्रवधूषु सुन्नदेशजातामु स्त्रीषु कलौ जातं कालेयं कुकमं वधूरूपादिविशेषेण विशेषितत्वाद्भाति यथा वा शारदकेषु शरदि जातेषु मुद्गविशेषेषु दर्भेषु वा प्रावृषिकाब्द. वृष्टिर्वर्षाकालजातमेघवृष्टिः फलाापचयविशेषेण विशेषितत्वाद्भाति । एतेनैवं नामायं शैलो रम्यो येनात्र देव्योपि क्रीडन्तीत्युक्तम् । सिन्धुकादीनां देवीनां मिलितानां बहुत्वादप्सरस इत्यत्र बहुवचनम् । यद्वैकस्मिन्नप्यर्थे वांच्येप्सरशब्दः स्वभावेन बहुवचनान्त इति बहुवचनम् ॥ सौन्न । कालेय । इत्यत्र “जाते" [ ९८ ] इति यथाविहितं प्रत्ययाः ॥ प्रावृषिक । इत्यत्र “प्रावृष इंकः" [ ९९] इतीकः ॥ शारंदकेषु । इत्यत्र "नानि." [१०० ] इत्यादिनाकञ् ॥ सिन्धुका । सैन्धवी । अपकरिका । अपैकर्या । इत्यत्र “सिन्धु०" [११] इत्यादिना कोण्च ॥ १ए 'ब्दधृष्टिः. २ए पवार्या. १ बी सी भैः शाडल. २ ए बी °न्ते । का का तत्रा'. ३ ए तत्रायु'. ४ बी पकारि', ५ सी देशेषु मुद्ग. ६ सी षु या प्रा. ७ ए 'न व. ८ सी इती. ९सी दिके. १० बी सी पकार्या.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy