SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २९८ व्याश्रयमहाकाव्य [कुमारपालः] नात्यन्तमृणात्वाद्रनाद्यर्थं परिभ्राम्यतामाकर्षकाणां च पुर उत्कृष्टरत्नखानीः शिल्पिकानां च पुर उत्कृष्टधातुखानीरत्रत्या वर्णयन्तीत्यर्थः । यथा नादेया नद्या नदीतरणे कुशला नाविका नादेयं लोकस्य निस्तारणादिना नद्यां कृतं लब्धं क्रीतं संभूतं वा धनं प्रशंसन्ति । यथा वा रा ष्ट्रिया राष्ट्ररक्षणादौ कुशेला भूपादयो रौष्ट्रियं राष्ट्र लोकपालनादिना कृतं लब्धं क्रीतं संभूतं वा द्रव्यं प्रशंसन्ति । सांवत्सरार्चाफल । सांवत्सरे पर्वणि । इत्यत्र "संवत्सरात्" [९०] इ. त्यादिनाण् ॥ हैमनः । हैमन्तैः(न्त)। हैमन्तिक । अत्र "हेमन्ताद्वा तलुक् च" [ ९२ ] इति वाण तत्संनियोगे तलुक् च वा ॥ प्रावृषेण्यः । अत्र "प्रावृष एण्यः" [ ९२ ] इत्येण्यः ॥ अश्वत्थाम्नः । अत्र “अः स्थाम्नः” [ ६.१.२२ ] इत्यप्रत्ययस्य सिंहॉजिन । इत्यत्राणश्च "स्थाम०" [९३ ] इत्यादिना लुब्वा । पक्षे । अश्वामाः ॥ सैंहाजिनम् ॥ माथुरौत्सम् । नादेयम् । राष्ट्रियम् । अत्र "तत्र कृत." [९४] इत्यादिना यथायोगमैणादय एयणादयश्च ॥ नादेयाः । राष्ट्रियवत् । इत्यत्र "कुशले" [९५] इति यथाविहितं प्रत्ययाः ॥ पथकाः । अत्र "पथोकः" [ ९६ ] इत्यकः ॥ अश्मकाकर्षक । इत्यत्र "कोश्मादेः" [ ९७ ] इति कः ॥ - -- १ ए°द्ररत्ना. २ बी म्यतमा . ३ बी खानी शि. ४ ए त्कृष्टं धा'. ५ ए यतीत्य. ६ ए नद्या न. ७सी द्यां त'. ८ बी यां क्रीतं. ९ ए शलभू. १० ए राष्ट्रेयं. ११ ए पालादि. १२ ए न्तः । हेमन्तिकः । . १३ बी योगोत'. १४ ए हाजन. १५ ए लुक् च वा । प. १६ बी 'त्यामा । सैं'. १७ ए मण्याद'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy