________________
[है. ६.३.७०.] षोडशः सर्गः।
२८७ इति रूढिः । ननु ते यदि निर्ममत्वेन न तावकास्तत्कथं तवाग्र इदमाख्यनित्याह । यतो मदीयोचितभक्तितुष्टाः ॥
मध्यमीयैः । अत्र "पृथिवी." [६५ ] इत्यादिना-ईयो मध्यमादेशश्च ।। माध्यम । इत्यत्र "निवासाचरणेण्" [ ६५ ] इत्यण् ॥ वैणुकीयैः । औत्तरीयः । अत्र "वेणुक०" [१६] इत्यादिना-ईयण् ॥ यौष्माक । यौप्माकीणे । आमाक । आस्माकीन । इत्यत्र "वा युष्मद्" [६७ ] इत्यादिना वाजीनौ युष्माकास्माकादेशौ च । पक्षे त्यदादित्वेन दुसज्ञकत्वादीयः । युष्मदीयाः । अस्मदीयः । एकत्वे तु तवकममको । तावकाः । तावकीनाः । मामक । मामकीनाः ॥ पक्षे । त्वदीयम् । मदीय ॥
द्वैप्याः । अत्र “द्वीपाद्०" [ ६८ ] इत्यादिना ण्यः ॥ अर्ध्यायाः । इत्यत्र “अर्धाद्यः" [ ६९] इति यः ॥ पूर्वा_सानावतिपौष्कराधिकाद्रौ से पौर्वाधिक आश्रमोस्ति । अस्मिन्वसिष्ठस्य मदीयराष्ट्रपावार्धपौर्वाधिकलोकवन्द्यः ॥ ३८ ॥
३८. अस्मिन्नर्बुदे स महाप्रभावत्वादिना प्रसिद्धो वसिष्ठस्यर्षेराश्रमोस्ति । एतेनास्य महातीर्थत्वोक्तिः । कीदृक् । मदीयराष्ट्रस्याष्टादशशतेत्याख्यया प्रसिद्धस्यार्बुदेति मौलाभिधानस्य मदीयदेशस्य पश्चार्धे पूर्वार्धे च भवो यो लोकस्तेन वन्द्यस्तथा पौर्वाधिकोद्रिपूर्वार्धे भवः । किंभूतेस्मिन् । पूर्वार्ध्यसानावद्रेः पूर्वार्धे भवाः सानवः प्रस्था
१ए स पूर्वाधिक. २ सी वशिष्ठ'. ३ ए पौवार्षि'.
१ ए सी माकी'. २ बी ण । अस्मा'. ३ ए नानी'. ४ ए 'नाः । प०. ५ बी सी याः। अत्र. ६ सी वशिष्ठ. ७ एशते. ८ बी - ईभ'. ९ बीर्वाद्रिभ.