________________
२८६ ब्याश्रयमहाकाव्ये
[कुमारपालः] देशे भवा ये मुनिनरादयस्तद्युक्तैर्माध्यममध्यमीयैः पृथिवीमध्यं निवास एषां माध्यमाश्चरणाः पृथिवीमध्ये जाता भवा वा मध्यमीया नरा द्वन्द्वे तैरध्यासितः ॥ यौष्माकवंशे नु शरण्य आस्माकीनादिमानामिह किंपुरुष्यः । अयुष्मदीया अपि तावकीना इवाभिगायन्ति यशस्त्वदीयम्
॥३६॥ ३६. इहार्बुदे वर्तमानाः किंपुरुष्यः किंनर्योयुष्मदीया अप्यन्यदीया अपि तावकीना इव त्वदीयं यशोभिगायन्ति । कीदृशीह । आस्माकीनादिमानामस्माकमादिमानामादौ भवानां पूर्वजानां शरण्ये महादुर्गत्वाद्रक्षाहेती यौष्माकवंशे नु यथा युष्माकं वंशश्चौलुक्यान्वयोस्मत्पूर्वजानां सदा स्वामित्वेन शरण्यः ॥ न मामकीना न च तावका ये द्वैप्याः किलामामकवादिनस्ते । आख्यन्नमुं सोदरमीश्वरस्यााया मदीयोचितभक्तितुष्टाः ॥३७॥
३७. ये द्रुप्या द्वीपे समुद्रसमीपस्थदेशे भवा मुनयो न मामकीना न च तावका (काः) सन्ति । यतः । किलेति सत्ये। अमामकवादिनो ममेदं मामकं न तथामामकं तद्वदनशीला निर्ममत्वा इत्यर्थः । ते मुनयोमुमबुंदाद्रिमीश्वरस्य शंभोराया अर्धे शरीरार्धभागे भवाया गौर्याः सोदरं भ्रातरमाख्यन्नर्थान्ममाने । अर्बुदो हि हिमाद्रेः पुत्र
१ बी रुषाः । अं. २ बी रस्या . ३ ए टाः ॥ द्वी'.
१ सी वा म. २ ए °रुषाः किनार्यायु. ३ बी किंनायों. ४ बी दशाह । अस्मा . ५ सी शी । आ. ६ ए नामादौ. ७ बी नादौ. ८ ए 'तौ युष्मा. ९ बी सी वकीनाः स. १० बी गौर्यायाः सो'.