SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ [है. ६.३.५५.] षोडशः सर्गः। २८३ न काच्छके सैन्धवका विमर्दे न काच्छकोः सैन्धवकेप्यकुप्यन् । तैः सैन्धवैर्वाजिभिरुखैभिश्च काच्छैस्तदाज्ञायमिता वजन्तः ॥३१॥ ३१. सैन्धवकाः सिन्धुनराः काच्छके कच्छदेशवासिनरसंबन्धिनि विमर्दै बाहुल्यात्संघर्षे सति नाकुप्यन् । किंभूताः सन्तः । व्रजन्तः । कैः कृत्वा । तैः सुजात्यत्वादिना प्रसिद्धैः सैन्धवैः सिन्धुदेशे जातैर्वाजिभिः । एतेन सिन्धौ सुजात्याः प्रभूताश्चाश्वाः स्युरित्युक्तम् । तथा काच्छकाः कच्छदेशनराः सैन्धवकेपि सिन्धुदेशनरसंबन्धिन्यपि विमर्दे सति नाकुप्यन् । किंभूताः ‘सन्तः । व्रजन्तः । कैः कृत्वा । तैः सुजात्यत्वादिना प्रसिद्धैः काच्छैः कच्छदेशभवैरुक्षभिर्वृषभैः । एतेन कच्छेषु सुजात्याः प्रभूताश्चोक्षाणः स्युरित्युक्तम् । यतस्त दाज्ञायमिताः कुमारपालाज्ञानियन्त्रिताः ॥ अपूर्यतैक्ष्वाकशृगालगीयाश्वस्थिकीयैः कटवर्तकीयैः । दाक्षिदीयैः सहदाक्षिकन्थीयायामुखीयैर्नृपतेरनीकम् ॥ ३२ ॥ ३२. नृपतेः कुमारपालस्यानीकमपूर्यत । कैः कैरित्याह । इक्ष्वाकुषु शृगालगत आश्वथिके कटवर्तके च देशेषु दाक्षिहदे च वाहीकग्रामे भवैस्तथा सहदाक्षिकन्थीया दाक्षिकन्थायां वाहीकमामे भवैभेटैः सहिता ये आयामुखीया आयामुखे वाहीकप्रामे भवास्तैश्च महाभटैः ॥ १ ए के सेन्ध . २ ए काः सेन्ध'. ३ एन् । सै'. ४ सी क्षकैश्च केछै'. ५ ए तेक्ष्वा'. १ ए वाजिसि. २ सी नि बा'. ३ ए 'हुदल्या. ४ बी देशजा. ५ सी 'श्चाश्वोक्षाणः स्यु. ६बी देशे न. ७ सी केषु सि. ८ सी आयोमु. ९ सी आयो.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy