SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २८२ ढ्याश्रयमहाकाव्ये [कुमारपालः] कगोयवागूवृत्त्या साल्वे देशे भवा या गावो घेनवो या च यवागूरुपलक्षणत्वाद्रसवती तासां या वृत्तिर्व्यापारस्तया साल्विकगोवृत्त्या रक्षणचारणादिकया साल्विकयवागूवृत्त्या च पाकादिकया । यौगंधरका: साल्वाश्च पदातयः स्वभावेनैवात्मोपयोगिसकलपरिवारपरिकलिता एव देशान्तरेषु यान्तीति तान्दासधेन्वादिसकल परिवारेण सश्रीकान्गच्छतो दृष्ट्वा राजा जहर्षेत्यर्थः ॥ मायितया नागरकैः । धीनागरकस्य । इत्यत्र "नगरात्०" [ ४९ ] इ. त्यादिनाकञ् ॥ पैप्पलकच्छकैः ॥ अग्नि । काण्डाग्नकैः ॥ वक्र । ऐन्दुवकैः ॥ वर्त । चाक्रवर्तक । इत्यत्र “कच्छाग्नि." [५० ] इत्यादिनाकञ् ॥ आरण्यकेध्वनि । आरण्यकन्याय । आरण्यकविद्भिः । आरण्यकैर्गजैः । आरण्यकैः । आरण्यकविहार । इत्यत्र "अरण्यात्०" [५१] इत्यादिनाकञ् ॥ आरण्यकगोमय आरण्यकरीष । इत्यत्र “गोमये वा" [५२ ] इति वाकम् ॥ केचित्तु हस्तिन्यामपि विकल्प मिच्छन्ति । आइण्यिका करेणुः आरण्यवशाभिः ॥ केचित्तु नरवज पूर्वसूत्रेपि विकल्पमाहुः । आरण्यके आरण्येध्वनि ॥ कौरवकैः कौरवं । यौगन्धरकोः यौगंधरैः । इत्यत्र "कुरु०" [५३ ] इत्यादिनी वाकम् ॥ साल्वकगोयवागू:(गू) । साल्वकर्मनुष्यैः । अत्र “साल्वाद" [५४ ] इत्यादिनाकन् ॥ गोयवाग्वपत्ताविति किम् । साल्वाः पदाताः ॥ १ सी साल्वदे'. २ बी गिकस'. ३ बी वतिक्य । इ. ४ ए त । ई. ५ सी ण्यकन्या . ६ ए सी 'रण्यका. ७ वी व । योग'. ८ ए रकः यौ'. ९ बी काः योग". १० एनाक. ११ वी सी वागूप.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy