________________
[है. ६.३.४९.] षोडशः सर्गः ।
२८१ एतेन ज्ञानितोक्तिः । तथाघारण्यकरीषदावैः पापेष्वेव वन्यच्छगणे. चूर्णेषु वनवह्नितुल्यैर्महातपस्वितया दग्धपापैरित्यर्थः । अनेन क्रियापरतोक्तिः । नन्वेवंविधैरप्यसौ किमित्याशीर्भिरानन्द्यत इत्याह । यतो द्विषो धर्मान्तराया आन्तराः कामादयो बाह्याश्च दैत्यादयोरयस्त एवासारत्वादारण्यकगोमयानि तेष्वग्निर्विजिगीपुर्नृप इत्यर्थः । अथ च य आरण्यकगोमयानामग्निः स्यात्स देवतात्वान्मुनीन्द्रराशिषानन्द्यत इत्युक्तिलेशः ॥ बालाभिरारण्यवशाभिरारंण्यिका करेणुर्नु भृशं प्रगल्भो । यौगंधरैः कौरवकैश्च सैन्यैः सेना मिलद्भिः पथि तस्य रेजे ॥२९॥
२९. तस्य राज्ञः प्रगल्भा प्रौढा सेना पथि मिलदियौगंधरैः कौरवकैश्च युगंधरेषु कुरुधुं च देशेषु भवैः सैन्यैः कृत्वा भृशमत्यर्थं रेजे । यथारेण्यिका वन्या प्रगल्भा करेणुहस्तिनी बालाभिः शिशुभिरारण्यवशाभिर्वन्यहस्तिनीभिः कृत्वा भृशं राजते ॥ . साल्वाः सयौगंधरकाः पदाताः सकौरवाश्वा अभवन्मुदेस्य । द्राक्साल्वकैः साल्वकगोयवानवृत्त्या मनुष्यैः परिवार्यमाणाः ३०
३०. सकौरवाश्वाः कुरुदेशजैरश्वैर्युक्ताः सयौगंधरको युगंधरदेशसंबन्धिपदातियुक्ताः साल्वाः पदाताः साल्वदेशस्य पत्तयोस्य राज्ञो मुदेभवन् । यतः साल्वकैः साल्वदेशे भवैर्मनुष्यैर्गोपालैः पाचकैश्च नरैद्राक्परिवार्यमाणाः । किंभूतैः । उपलक्षितैः । कया। साल्व
१ सी रण्यका. २ ए °ल्मा । योग'. ३ सी सयोग'.
१ ए पदवी पा. २ ए णतूणे. ३ ए °या विश्वपा. सी या वन्यपा. ४ ए रत्वोक्तिः. ५ए या अन्त. ६ ए बी धुनृप. ७ ए द्भिर्योगं'. ८ सीपु दे'. ९ए सी °रण्यका. १० ए स्तिभिः. ११ सी का यौगं.