________________
२८० ख्याश्रयमहाकाव्ये
कुमारपालः] नरतुल्यैरपि । नागरि(र?)का हि प्रायो मायिनः स्युरिति यानहेतुज्ञानकारणमायाप्रयोगचतुरैरपीत्यर्थः । तर्हि कथं नौटंत इत्याह । यतो धीनागरकस्य बुद्ध्या कृत्वा नगरभवनरतुल्यस्य । नागरको हि प्रा. योतिबुद्धिमान्स्यात् । यतोतिधीमत्त्वेनातिगूढमत्रस्येति भावार्थः ॥ सचाक्रवर्तक्यधृतातपत्र आरण्यके सोध्वनि सेव्यते स । आरण्यकन्यायविहारद:रारण्यकैः प्राज्यबलैर्गजैर्नु ॥ २७ ॥ २७. स राजारण्यके वन्येध्वन्यारण्यकैररण्ये भवैनरैः शरैः सेव्यते स्म । कीटक्सन् । चक्रवर्ते देशे भवो राजा चाक्रवर्तकस्तस्य भावश्चाक्रवर्तक्यं सह तेन यः स सचाक्रवर्तक्यश्चाक्रवर्तको राजैव तेन धृतमातपत्रं यस्य सः । किंभूतैः । आरण्यकन्यायविहारदक्षैररण्ये भवयोर्नीतिविचरणयोर्विषये प्रवीणैस्तथारण्यकैर्गजैर्नु वन्यहस्तिभिरिव प्राज्यबलैर्महाप्राणैः ॥
आरण्य आरण्यकविद्भिरध्वन्यसौ द्विडारण्यकगोमयाग्निः । गच्छन्नधारण्यकरीषदावैरानन्द्यताशीर्वचनैर्मुनीन्द्रः ॥ २८ ॥
२८. आरण्येध्वनि गच्छन्सन्नसौ राजा मुनीन्द्रैः कर्तृभिराशीवादैः कृत्वानन्द्यत । किंभूतैः । आरण्यकविद्भिरात्मनोखिलेन्द्रियवि. पर्यग्रामाद्या निवृत्तिः सा वनं वारण्यमिति श्रुतिस्तत्स्वरूपस्य वर्णकत्वात्तस्यायं तत्र विषये भवो वारण्यकोध्यायभेदो वेदान्तस्तं जानद्भिः।
१ बी सीन्द्रैः ॥ अर'.
१ सी 'नकर'. २ ए °थं नोझ. सी °थं मोद्य. ३ ए सी ह्यतेत्या. ४ बी रैः से'. ५ सी वत्तिक. ६ सी वत्तिक्यं. ७ सी वत्तिक्य'. ८ सी वत्तिको. ९ वी °च्छन्न. १० सी नन्दितः किं. ११ए ययामा. १२ बी ति स्रुतिस्त्वत्स्व.