SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ [ है० ६.३.४९. ] षोडशः सर्गः । दार्वकैः : । अत्र " बहु०" [ ४५] इत्यादिनाकञ् ॥ बहुवचनमपवादवि षयेपि प्रापणार्थम् | त्रैगर्तकैः । अत्र गर्तोत्तरपदलक्षण ईयो बाध्यते ॥ धौमकैः । स्थालक । इत्यत्र " धूमादेः " [ ४६ ] इत्यकञ् ॥ चौलुक्यमन्वीर्युरथेरयन्तस्तुरङ्गमान्कौलकसादिवर्याः । सामुद्रिका नाव इवाशु सामुद्रकाः कशादण्डभृतः समन्तात् ||२५|| २५. अथ कौलकसादिवर्याः कूलं नाम सौवीरग्रामस्तत्र भवा अश्ववारश्रेष्ठाः समन्ताच्चौलुक्य मन्वीयुरनुजग्मुः । किंभूताः सन्तः । कशादण्डभृतः कशायष्टिधारिणोत एवाशु तुरङ्गमानीरयन्तः कशाघातेन प्रेरयन्तः । यथा कशादण्डभृतः कशाकारारित्रदण्डधारिणः सामुद्रकाः समुद्रे भवा जाताः समुद्रकर्मणि कुशला वा नराः सामुद्रिकाः समुद्रे भवा नावस्तेरीः समन्तादाश्वरित्रैः प्रेरयन्ति ॥ २७९ कौलक । इत्यत्र “सौवीरेषु कूलात् " [ ४७ ] इत्यकञ् ॥ सामुद्रका नराः । सामुद्रिका नावः । अत्र "समुद्रान्नृनावो: " [ ४८ ] इत्यकम् ॥ न तस्य धीनागरकस्य मायितया चरैर्नागरकैः परेषाम् । काण्डानकैः पैप्पलकच्छकै वे () न्दुवक्रकैव (नौ) ह्यत यानहेतुः ॥ २६ ॥ २६. काण्डानौ पिप्पलकच्छ इन्दुवक्रे च देशेषु भवैस्तेभ्य आगतैर्वा परेषां चरैर्द्विषां हेरिकैस्तस्य राज्ञो यानहेतुर्यात्रायाः कारणं नौत न ज्ञात इत्यर्थः । किंभूतैः । मायितया नागरकैर्नगरभव १ सी "युरिवेर २ ए सी 'कैर्वोझ'. २ ए सी स्तरी स°. १ बी सी 'रेल'. हेरकै. ५ सीणं नोश. ३ ए मुद्रका. ४ सी षां
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy