________________
[ ३० ६.२.४०.]
षोडशः सर्गः ।
२१. यथैकवेलं मत्पितैनं विजित्याहजालिकाभमात्तौर्णवा[स] सं चक्रे तथा चेदहं पुनः प्रकर्षेण न करोमि तदाहं तस्य जयसिंहस्य कथमपत्यमित्यर्थः : । कथम् । सदैव सहितमेव । कै: । भूपैः । किंभूतैः । वृजिकाह्वजालीयमद्रकैर्वृजिषु देश आह्वजाले प्रामे मद्रेषु च देशेषु भवैस्तथा नापितवास्तुकैश्च नापितवास्तौ वाहीकग्रामे प्राग्ग्रामे च भवैश्च ॥
२७७
काकन्दकैः पाटलिपुत्रकैर्माल्लवास्तवैर्जम्बुकवन्मिलित्वा । बल्लाल आरब्ध स जागरं यत्क्षमोस्मि तत्राप्युचितं विधातुम् ॥२२॥
२२. तत्रापि विषय उचितं योग्यं विधातुं क्षमोस्मि । यत्स बल्लालो नृपैः सह जम्बुकवदल्प सारत्वाच्छ्रगाल इव मिलित्वा जागरं मत्पाश्चात्यदेशभञ्जनायोद्यममारब्ध । कैः कैर्नृपैरित्याह । काकन्दकैः पाटलिपुत्रकैश्च काकन्यां पाटलिपुत्रे च प्राक्पुर्योर्भवैः । तथा मालवास्तवैर्मल्लवास्तौ प्राग्ग्रामे भवैश्च ॥
कारन्तपिका । कारन्तपिकी । इत्यत्र " वाहीकेषु ग्रामात्" [ ३६ ] इति णिकणौ ॥
भाह्वजालिका । भ्राह्वजालिकी । इत्यत्र "वोशीनरेषु" [३७] इति णिकेकणौ वा ॥ पक्षे । आह्नजालीय ॥
वृजिक | मँद्रकैः । अत्र “ वृजि०" [ ३८ ] इत्यादिना कः ॥
नापितवास्तुकैः । भ्रत्र " उवर्णादिकण्” [ ३९ ] इतीकण् ॥ यदा तु नापितवास्तुः प्राग्ग्रामस्तदा "दोरेव प्राच: " [ ४० ] इतीकण् । पूर्वेण सिद्धे नियमार्थं वचनम् । तेनेह न स्यात् । माल्लवास्तवैः ॥
१ सी 'लं मिलित्वैनं. २ सी भूतैः ३ सी देशेषु आ. ४ए योगं वि.. ५ सी 'जालकी. ६ए मद्रकैः