________________
[है. ६.३.१९.] षोडशः सर्गः ।
२७१ राङ्कवायणीं गाम् राङ्कवो गौः । अत्र "रकोः प्राणिनि वा" [१५] इनि वा रायनम् ॥
कत्यः । इहत्यः । अमात्य। तत्रत्यः । ततस्त्यः । अत्र "केह." [१६] इत्यादिना त्यच् ॥ आविःशब्दादपि कश्चित् । आविष्ट्यः ॥ . नित्यम् । अत्र "नेवुवे" [१७] इति त्यच् ॥ निष्ट्यान् । इत्यत्र “निसो गते” [ १८ ] इति त्यच् ॥ ऊचे स नत्वेति तवैषमस्त्योप्यनैषमस्तन्य इवारिरानः। दिनेचलद् ह्यस्तन एष्यति श्वस्तने च नूनं तव देशसीमाम्॥१३॥
१३. स प्रणिधिनत्वेत्यूचे । यथा हे राजन्नान्नो हस्तनेतीते कल्यदिनेचलत्तवाभिषेणनायाचालीत् । तथा नूनं श्वस्तने दिने भाविकल्यदिवसे तव देशसीमामेष्यति । र्यंत ए(ऐ)पमस्त्योप्यस्मिन्संवत्सरे भवोपि नास्त्यैषमस्तन्यमिदंसंवत्संरभवतास्य सोनैषमस्तन्य इवातिप्ररूढवैरेण चिरकालीन इव तवारिः ।। हस्ते(स्त्ये) दिने कान्थिककान्थकारण्यशैवरूप्येट् च सपौर्वशालः। भिन्नस्तव श्वस्त्यदिनेभिगन्ता तं चाहडो हस्त्यधिरोहणेन्द्रः॥१४॥
११. हे राजंस्तव संबन्धी कान्थिककान्थकारण्यशैवरूप्ये च कान्थिकाः कन्थायां ग्रामविशेषे भवा नराः कान्थका वर्णाख्यहदसमीपस्थकन्थाग्रामभवा नरा आरण्या अरण्ये भवाः पशुवृक्षादयः शैवरूं. प्याः शिवरूप्ये देशभेदे भवा नरा द्वन्द्वे तेषामीट् च राजा स्त्येि दिनेतीते
१ सी 'मात्यः । त'. २ बी त्रत्य । त°. ३ सी के इ. ४ ए बी प्रणधि'. ५ सी दिने त'. ६ बी यतो एष. ७ए नास्त्येष. ८ ए त्सरे भ°. ९ बी सी ता यस्य सौन'. १० ए रि: । हस्ते दि. ११ बी रूपदे'. सी रूपे दे. १२ ए जा हस्त्ये. १३ सी ह्यस्ते दि०.