________________
२७०
व्याश्रयमहाकाव्ये
[कुमारपालः]
कत्यस्ततस्त्यो न्वसि नामि तत्रत्यः किं त्वहं नित्यमिहत्य एवम् । तदीय निट्यानभिवश्य कश्चिदाविष्ट्य आगात्प्रणिधिश्चुलुक्यम्॥१२॥
१२. कश्चित्प्रणिधिश्वर आविः प्राकाश्ये भव आविष्टयः प्रकटः संथुलुक्यमागात् । किं कृत्वा । तदीयनिष्टयानान्नसंबन्धिनश्चण्डालानभिवश्यच्छलयित्वा । कथमित्याह । अहो नरासि त्वं कत्यः कस्मिन्देशे पुरे वा भवो नु । शङ्कामहे । ततयोसि तस्मात्पश्चिमदेशादागतस्त्वं कुमारपालचरस्त्वमित्यर्थः । इत्युक्ते प्रत्युक्तिर्यथा । नास्मि तत्रत्यो नाहं तस्मिन्पश्चिमदेशे भवः किं स्वहं नित्य मिहत्योस्मिन्सपादलक्षदेशे भव एवंप्रकारेण ॥ ग्रामीण । ग्राम्य । इत्यत्र “प्रामादीनञ्च" [९] इतीनञ् यश्च ॥ कात्रेयकैः । प्रामेयक । इत्यत्र “कत्रि० [१०] इत्यादिनैयकन् । कौण्डेयकम् । कोणेयकम् । अत्र "कुण्ड्या ." [1] इत्यादिना-एयकञ् यल्लुक ॥
कौलेयक । कौक्षेयकः । प्रैवेयकी । इत्यत्र "कुल." [१२] इत्यादिनाएयकर्ज ॥
दाक्षिणात्यः । पाश्चात्य । पौरस्त(स्त्य)। इत्यत्र "दक्षिणा." [१३] इत्यादिना त्यण् ॥
वाहायनौयन । पार्दायनः । कापिशायनी । इत्यत्र "वह्निः" [१५] इत्यादिना टायनण् ॥
१बी प्रणघि'.
१बी विः प्रका. २ बी 'नश्चाण्डा'. ३ ए सी हो निरा'. ४ ए सी नन् यं. ५ ए सी क । कौ". ६ पुस्तकत्रयेपि 'कुण्डेत्यादिना' इति वर्तते. ७ बी सी यकः । कौ. ८ सी ञ् । राङ्क ९ बी यनैर्दा. १० बी यनः । का. ११ ए य । का'. १२ ए शायिनी.