________________
[ है ० ६.३.५.] षोडशः सर्गः।
२६७ हारानदीसंबन्धिनस्ते तथावारीणम अवारे प्रस्तावाच्छिवहारानद्या अर्वाक्तटे भवास्तथा पारीणाः पारे शिवहारायाः परतटे भवा विशेषणद्वन्द्वे एते ये नृपास्तैः । यतो मदतो बलाधवलेपादतिपारावारीणनागः पारावारेब्धौ भवं जातं वा नागमैरावणमतिक्रान्तः ॥ प्राच्यं च व(ब?)ल्लालमयुक्त पारातोवारपारीणनृपैरपाच्यैः । प्रतीच्यराट्पाणिनिपीडनार्थमुदीच्यराण्नीत्यतिदिव्यमत्री॥८॥
८. उदीच्यराडुदीच्यानामुत्तरदिग्भवानां सपादलक्षादिदेशनृणां राजान्नः प्रतीच्यानां गूर्जरत्रादिपश्चिमदेशभवानां नृणां राट् कुमारपालस्तस्य यः पाणिः पश्चाद्भागदेशस्तस्य निपीडनार्थमुपद्रवणार्थं प्राच्यमवन्तिदेशाधिपं बल्लालं बल्लालदेवाख्यं नृपं पारातोवन्तिदेशस्थपारानद्याः सकाशादयुत च । कैः सह । अपाच्यैर्दाक्षिणात्यैरवारपारीणनृपैरवारपारेब्धौ भवैर्नृपैः । यदा कुमारपालो मया सह युध्यते तदा युष्माभिरेतस्य पश्चाद्देशो भजनीय इत्येवं मैत्रीदानसन्मानादिकरणेन प्रेरितवानित्यर्थः । यतो नीत्यतिदिव्यमत्री नीती राजनीतिविषये दिव्यमत्रिणं बृहस्पतिमप्यतिक्रान्तः । गूर्जरत्रापेक्षया सपादलक्षदेश उत्तरः। सपा. दलक्षापेक्षयों च गूर्जरत्रौ पश्चिमा । गूर्जरत्रासपादलक्षापेक्षया चावन्तयः पूर्वा इत्यन्योन्यापेक्षयावन्त्यादिदेशानां प्राग्देशत्वादिव्यवहारः । यद्वेशानतो नैऋ()ति गच्छन्त्याः शरावतीनद्या अपेक्षयावन्त्यादिदेशानां प्राग्देशत्वादिव्यवहारः । तथा च वैयाकरणाः । कः पुनः प्राग्देशो
१ बी राणीत्य'.
१ सी लेपतोति'. २ सी ददे'. ३ ए रवादि'. ४ सी देशानां भ. ५ ए भवां नृ. ६ बी नृपाणां. ७ सी राजा कु. ८ ए श्चारादे'. ९ ए लालादे'. १० बी सी वैर्भूपैः, ११ सी तिविदि. १२ सी या चा. . १३ बी त्रास'.