SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६६ ब्याभयमहाकाव्ये [ कुमारपाल:] नादेयपूराभवलः स कृत्यशेषेपि नाशेत यतस्ततोमुम् । माहेयराड्राष्ट्रियराजमुख्या भूपा अदूरेत्यभुवोभजन्त ॥ ६ ॥ ६. यतो यस्माद्धेतोः स राजा कृत्यशेषेपि स्तोकेपि कार्ये नाशेत नालस्यभूत् । कीदृक्सन् । नादेयपूराभबलो नदीभवप्रवाहतुल्यबलः । तस्मान्महोत्साहरूपाद्धेतोर्मयां भवा माहेया महियडा इति प्रसिद्धाः क्षत्रियभेदास्तेषां रागोद्रहदेशाधिपस्तथा राष्ट्रे भवा राष्ट्रियाः क्षत्रियभेदास्तेषां राजा राष्ट्रियराजो द्वन्द्वे तदादयो भूपा अमुमभजन्त । किंभूताः सन्तः । अदूरेत्याः समीपभवा भुवो येषां ते तथा निकटस्था इत्यर्थः ॥ शेषे । इत्यनेन "शेषे" [ 1 ] इति सूत्रं सूचितम् ॥ नादेय । माहेय । इत्यत्र “नद्यादेरेयण" [२] इत्येयण् ॥ राष्ट्रिय । इत्यत्र "राष्ट्रादियः" [३] इतीयः ॥ दूरेत्य । इस्यत्र "दूरादेत्यः" [ " ] इत्येत्यः ॥ अथो(थौ)त्तराहाखिलशैवहारावारीणपारीणनृपैः सहैव । आनो नृपोसिन्मदतोतिपारावारीणनागः सहसा व्यरुद्ध॥७॥ ७. अथान्नो नृपः सपादलक्षदेशाधिपोस्मिन्कुमारपालविषये सहसातर्कितमेव व्यरुद्ध । जयसिंहे स्वर्गते नवराजत्वेन कुमारपालमसमर्थ मन्यमानो विरोधकारणाभावेप्यतर्कितं तेन सह विरोधं चकारेत्यर्थः । कीहक्सन् । सहैव सहित एव । कैरित्याह । औत्तराहा उत्तरस्यां दिश्युत्तरस्मिन्देशे वा भवास्तथाखिला ये शैवहाराः शिव १बी व । अन्नो. १ ए रागोद्र. २ सी रवि'. ३ बी सिंहस्व. ४ ए विधं. 'त्याहोत्त. ६ सीधा पागणाः. ५ ए
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy