________________
[है. ६.२.१५.] षोडशः सर्गः।
२६५ माल्लकमुखायां स्थाल्यां संस्कृतमुख्यं भ्राष्ट्रे संस्कृतं भ्राष्ट्रं च यदन्नं तस्यै भुग्भोक्ता ॥ मालक । कार्पर । इत्यत्र "तत्र." [१३८ ] इत्यादिनाण ॥ स्थाण्डिलः । अत्र "स्थण्डिलाच्छेते व्रती" [ १३९] इत्यण् । भ्राष्ट्र । इत्यत्र "संस्कृते भक्ष्ये" [ १४० ] इत्यण् ॥ शूल्य । उख्य । इत्यत्र "शूलोखायः" [1] इति यः ॥ असाधुरौदश्वितरुच्यनीश्चित्तेस्य नो साधुतया न्यवात्सीत् । क्षैरेयता दाधिकतां च नौदश्वित्कं भजेद्रासनवेदिनो हि ॥५॥
५. अस्य राज्ञश्चित्तेसाधुः साधुतया न न्यवात्सीत् । यत उदश्विति तके संस्कृतं "संस्कृते भक्ष्ये" [ ६.२. १४० ] इत्यणि औदश्वितं प्रलेहस्तदिव रुच्याभिप्रेता नीतिायो यस्य तस्य । युक्तं चैतत् । हि यस्माद्रासनवेदिनो रोगादिनाप्रतिहतरसनेन्द्रियत्वाद्रसनाग्राह्यमाधुर्यादिरससंवेदिनः पुंस औदश्वित्कमुदश्विति संस्कृतमोदनादि क्षी(झै)रेयतां क्षीरे संस्कृतत्वं परमानतां दाधिकतां च दनि संस्कृतत्वं दधिसंस्कृतौदनतां वा न भजेत् ।।
झरेय । इत्यत्र "क्षीरादेयण" [ १४२ ] इत्येयण् ॥ दाधिकताम् । अत्र "दनः" [१३] इति(त्यादिना)-इकण् ॥ औदश्चिकम् औदश्वित । इत्यत्र "वोदश्वितः" [१४४ ] इतीकग्वा । रासन । इत्यत्र "कचित्" [१५] इत्यण् ।
द्वाविंशः पादः ॥
१ बी 'स्य भोक्ता. २ एलका . ३ बी शूल्योखा. ४ सी °स्य । अथोत्त. षष्ठश्लोकसमाप्तिपर्यन्तं न वर्तते. ५ ए °या न्य. ६ ए स्कृतं भ. ७ वी 'नो रागा. ८ बी तमौद'. ९५ "श्चित.