________________
२६४
व्याश्रयमहाकाव्ये [कुमारपालः] जातो हि नरो दुर्धर्षतादिगुणोपेतः स्यात् । नीतिज्ञो विक्रान्तश्चार्य राजाभूदित्यर्थः ॥ वास्त्र । हत्यत्र "तेन." [ १३.] इत्यादिनाण् ॥ पाण्डकम्बलि । इत्यत्र "पाण्डु०" [ १३२ ] इत्यादिनेन् ॥ क्रौञ्च । इत्यत्र "दृष्टे साग्नि नाग्नि" [ १३३ ] इत्यण् ॥
औपगवक । इत्यंत्र "गोत्रादकंवत्" [१३४ ] इत्यतिदेशादङ्केथै "गोत्रादएण्ड०" [ ६. ३. १६९ ] इत्यादिना योकञ् विहितः स स्यात् ॥ बामदेव(व्य) । इत्यत्र “वाम०" [ १३५ ] इत्यादिना यः ॥
औशन । इत्यत्र योण विहितः स "डिद्वाण" [ १३६ ] इति वा डित् ॥ पक्षे । औशनसः ॥
शातभिषः । शातभिषेज्ये । अत्र "वा जाते द्विः" [१३७ ] इति जातेथे पुनर्विहितोण वा डित् ॥ केचित्तु द्विर्डित्त्वमिच्छन्ति । तन्मते द्विर्डित्वाविर• त्यस्वरादिलोपे शातभः । एवं पूर्वसूत्रेपि । औशेषु । एवं च योगद्वयेपि त्रैरूप्यं सिद्धम् ॥ लोकात्सदा न्याय्यकराभितुष्ट इयेप नैपोपनयेन वित्तम् । किं स्थाण्डिलः कार्परमाल्लकोख्यभ्राष्ट्रानभुक्कासति शूल्यभिक्षाम् ४
४. एष राजा लोकात्सकाशादपनयेनोन्यायेन सदा वित्तं द्रव्यं नेयेष यतो न्याय्यो न्यायादनपेतो यः करो राजग्राह्यो भागस्तेनाभितुष्टः । अर्थान्तरन्यासमाह । स्थाण्डिलः स्थण्डिल एव शयनवतो मिक्षुः शूल्यमिक्षां शूल्यस्य शूले संस्कृतस्य मांसस्य भिक्षां किं काति निन्द्यत्वान्नैवेत्यर्थः । यतः कर्पर उद्धृतं कार्परं मल्लके शराव उद्धृतं
१ सीत्र योण्. २ बी पजे । अ. ३ ए वा दितः । के. ४ ए तेर्डि'. सीते द्विडित्वा'. ५ ए ना स. ६ सी कर उ. ७ सी तं मा. ८ बी के सरा.