SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ [ है. ६.२.१२३.] पञ्चदशः सर्गः। अनुब्राह्मण्याढ्यैः सशतपथिकैः पष्टिपथिकैः ___ कृताध्यायान्याशूत्तरपदिकयुक्पूर्वपदिकैः। द्विपद्धूवाके(क्ये)भ्यः पदिक इव निर्धार्य स पदा न्युरून्कीर्तिस्तम्भानिव सुरगृहाणि व्यरचयत् ॥ १२२ ॥ १२२. स राजा सुरगृहाणि प्रासादान महाकीर्तिहेतुत्वेनोरून्महतः कीर्तिस्तम्भानिवाशु व्यरचयदकारयत् । किं कृत्वा । यथा पदिको वैयाकरणो वाक्येभ्यः सकाशात्पदानि विभक्त्यन्तादीनि निर्धारयति तथा द्विषद्भूवाक्येभ्यो द्विषद्भुवः शत्रुभूमय एव पदसमूहात्मकत्वाद्वाक्यानि तेभ्यः सकाशात्पदानि देवगृहस्थानानि निर्धायेषु स्थानेषु देवगृहाणि विधास्यन्त इति पृथकृत्य शत्रुदेशेष्वपि देवगृहाण्यकारयदित्यर्थः । किंभूतानि। कृताध्यायानि विहितपाठानि । कैः । षष्टिपथिकैः षष्टिः पन्थानो यस्य स षष्टिपथो वेदाध्यायविशेषस्तं विदन्त्यधीयते वा तैर्द्विजैस्तथोत्तरपदिकयुक्पूर्वपदिकैः समासोत्तरपदविद्युक्तैः समासपूर्वपदविद्भिश्च लाक्षणिकैश्च । किंभूतैः । अनुब्राह्मण्याढ्यैब्रह्मणा प्रोक्तो ग्रन्थो ब्राह्मणं तत्सदृशो ग्रन्थोनुब्राह्मणं सहगर्थेव्ययीभावः । तद्विदन्त्यधीयते वानुब्राह्मणिनस्तैराव्यैर्युक्तैस्तथा सशतपथिकैः शतपथवेदाध्यायविशेषविद्युक्तैः ॥ शिखरिणी छन्दः ॥ लसत्पदोत्तरपदिकैः ससामकैः सहाश्रमैस्तव तदपत्यमत्यये । कुमारपाल उ अविता महीमितीशवाक्स्मृतेरयतत स खसिद्धये ॥१२३ ॥ १ ए सी कैः कृ. २ बी कृतध्या'. . १ ए बी °णि प्रसा. सी "णि विधास्यन्त इति पृथक्कृत्य श प्रा. २ बी "तुत्वानारू'. ३ ए नोन्म'. ४ सी वाकेभ्यः. ५ सी नि दे'. ६ए वाकेभ्यो. ७ ए °युत्पूर्व'. ८ बी सी ट्यैाह्म'. ९एबी शिखिरणी.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy