SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] १२३. स जयसिंहः स्वसिद्धयेयतत परलोकसाधनायानशनाद्यैन्त्यक्रियां चकारेत्यर्थः । कुत इतीशवाक्स्मृतेरेवंविधसोमनाथवचःस्मरणमवलम्ब्य । का वागित्याह । उ हे जयसिंह तवात्यये तदपत्यं तस्य त्रिभुवनपालस्यापत्यं कुमारपालो महीमविता पालयिष्यति । कैः। सहाश्रमैर्ब्रह्मचारिमुख्यैः । किंभूतैः । लसन्तः सम्यग्ज्ञानेन देदीप्यमानाः पदोत्तरपदिकाः पदं चोत्तरपदं च विदन्तोधीयाना वा वैयाकरणा येषु तैस्तथा ससामकैः सामवेदज्ञयुक्तैः ॥ रुचिरा छन्दः ॥ २६० उपनिषदेकशिक्षकेषु मीमांसकपर्दकक्रमकेष्वथापरेद्युः । जनितशुगवनीपतिर्मघोनः पुरमगमत्परमेष्ठिनः स्मरन्सः ॥ १२४ ॥ १२४. अथापरेद्युः सोवनीपतिर्जयसिंहो मघोनः पुरमगमद्दिवं गत इत्यर्थः । कीदृक्सन् । जनितशुग्विहितशोकः । केषु विषये । उपनिषदक शिक्षकेपूपनिषदं योगशास्त्रं शिक्षां वर्णोत्पत्तिस्थानप्रतिपादकं ग्रन्थं विदत्स्वधीयानेषु वा । तथा मीमांसकपर्दकक्रमकेषु मीमांसां विचारणाशास्त्रं पदक्रमौ च वेदपाठभेदौ विदत्स्वधीयानेषु वा द्विजेषु तथा परमेष्ठिनोर्हत्सिद्धाचार्योपाध्यायें सुसाधून्हरिहरब्रह्मणश्च स्मरन् । भनुब्राह्मणि । इत्यत्र “अनु०” [ १२३ ] इत्यादिनेन् ॥ शतपथिकैः । षष्टिपथिकैः । अत्र “शत०” [ १२४ ] इत्यादिना इकट् ॥ । १ बी शि". २ ए बी 'द'. १ बी सिंह स्व. सो. ५ सी 'दक'. ● क्रमेषु. ९ विधत्स्व . ९ २ बी 'लोके सा'. ६ बी सी वाथ त १० सी वसा. ३ बी सी 'द्यन्तक्रि'. ४ बी 'विधं ७ वी सी क्र. ८ सी
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy