SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [कर्णराषः] व्याघ्र । आघ्राः । एतौ "व्याघ्र०" [५७] इत्यादिना निपात्यौ । माल्यजिघ्राः शङ्खधमा उत्पश्यत्वान्नभःपिवाः। सुधाधयसमाः संगीतकं चक्रुः कलाविदः ॥ २९ ॥ २९. कलाविदो गायनादयो विद्यावन्तः संगीतकं प्रेक्षणं चक्रुः । किंविधाः । शङ्खधमाः केचिच्छङ्क्षान्वादयन्तस्तथा केचिद्गायनादय उत्पश्यत्वाद्गानादावूर्ध्व प्रेक्षमाणत्वान्नभःपिबो व्योनो लेहा इव । गानादि कुर्वन्तो हि गायनादयः स्वभावादूवं पश्यन्तो व्योमचुम्बिन इव लक्ष्यन्ते । सर्वेपि चैते माल्यजिघ्राः पुष्पाणि जिघ्रन्तो भोगलिङ्गा इत्यर्थः । अत एव सुधाधयसमा गन्धर्वदेवैः समाः ॥ माल्यजिघ्राः । शङ्खधमाः। नभःपिबाः। सुधाधय । उत्पश्य । इत्यत्र "प्राध्मा० [५८] इत्यादिना शः ॥ मित्रैर्मुचेतयैरेतजन्मवेदयसातयः। विलम्बासाहयैरेये व्यापारान्तरपारयैः ॥ ३० ॥ ३०. मित्रैरेये कर्णसौध आगतम् । कीदृशैः । एतजन्मनः कर्णपुत्रजन्मनो वेदयानां ज्ञापकानां पुत्रजन्मवर्धापकानां सातवैर्महादानेन सुखोत्पादकैः। सात् सौत्रो धातुः सुखार्थे । ततः साततः सुखविषयीभवतो मित्राणि प्रयुजते णिम् । अतश्च पुत्रजन्मज्ञानान्मुञ्चेतयैहर्षस्यानुभवितृभिरत एव विलम्बासाहयैः कालक्षेपमसहमानैरत एव व्यापारान्तरपारयैरन्यन्यापारसमापकैः कार्यान्तरं मुक्त्वेत्यर्थः ॥ १ ए धायसमसं° सी धायसुमाः. १ए यतस्त. २ ए बी प्रेक्ष्यमा'. ३ ए 'क्ष्यते । स. ४ बी एवं मु. ५ ए सी डी समा ॥ मा. ६.५ °नां जाप. ७ सी दामेन. ८ बीत: मु. .डीयुद्धाते. १० एम्बासहः ये का.सी मासह.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy