________________
२५६ व्याश्रयमहाकाव्ये
[जयसिंहः ] पादां मिथोंहिसंघट्टैः सरन्ति सहढौकिनः । तासु छान्दसनैमित्तमौहूर्ता भोज्यलिप्सवः ॥ ११६ ॥ ११६. छान्दसनैमित्तमौहूर्ताश्छन्दो वेदं निमित्तं शकुनशास्त्रादि मुहूर्त मुहूर्तवाचकज्योतिःशास्त्रं च विदन्तोधीयाना वा द्विजास्तासु सत्रशालासु मिथोंहिसंघट्टैर्गाढसंमर्दैन पादश्लेषैः कृत्वा पादां पादप्रहरणां क्रीडां स्मरन्ति । यतः सहढौकिनोहमहमिकया युगपदागच्छन्तः । एतदपि कुत इत्याह । यतो भोज्यलिप्सवः ।।
चक्रे नैमित्तिको मौहर्तिको नैयायिकश्च सः ।
शंभोः सहस्रमष्टौ चायतनानि सरस्तटे ॥ ११७ ॥ ११७. स्पष्टः । किं तु नैमित्तिको मौहूर्तिको नैयायिक इति विशेषणैः शुभे निमित्ते शुभे मुहूर्त आयतनकरणव्ययितप्रभूतद्रव्योत्पादनाय लोकानां गाढदण्डपातनरूपस्यान्यायस्याकरणे चैषामायतनानां करणमुक्तमेवं चैषामतिस्थिरता सूचिता ॥
पौराणिकानुपदिकोत्रानुला(ल?)क्षणिकोकृत ।
स देवीनां शतं साग्रं प्रासादान्मातृकल्पिकः ॥११८ ॥ ११८. स राजात्र सरस्तटे देवीनां चण्डिकादीनां सामं शतमष्टोत्तरं शतं प्रासादानकृताकारयत् । कीदृक् । पुराणं पञ्चलक्षणं पदान्यनुगतमनुपदं पदनिष्पादकं निरुक्तिशास्त्रमनुरूपं लक्षणमनुलक्षणं शब्दानुशासनं मातृकल्पं मातृविधिप्रतिपादकं शास्त्रं च विदन्नधीयानो वा ॥
१बी सी मिथोहि.
१ बी मर्दन. सी मर्दनेन. २ सी पातानुरू. ३ बी सी मिति'. ४ सी कानां. ५ प णश. ६ बी सी वा । अग्नि'.
मेव चैषा