SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५४ व्याश्रयमहाकाव्ये [जयसिंहः] वायव्य । ऋतव्य । पित्र्य । उषस्य । इत्यत्र “वातु०" [ १०९] इत्यादिना यः ॥ म(मा)हाराजिकैः । प्रौष्ठपदिक । इत्यत्र "महाराज." [१०] इ. त्यादिनेकण् ॥ सूक्तपाङ्गप्रगाथेभ्यः प्रावृषेण्यत्करोम्भसा । सोदाद्भारतनेतेव द्विजेभ्यस्तत्र दक्षिणाः ॥ ११३ ॥ ११३. तत्र यज्ञान्तस्नीने सति स राजा द्विजेभ्यो दक्षिणा अदात् । कीडक्सन् । अम्भसा कृत्वा प्रावृड्देवतास्य प्रावृषेण्यो वर्षामेघस्तद्वदाचरन्करः पाणिर्यस्य सः। कीदृग्भ्यो द्विजेभ्यः । सूक्तपाङ्कप्रगाथेभ्यः पतिर्दशाक्षेरच्छन्दोजातिरादिरेषां पाता यत्र द्वे ऋचौ प्रपॅन्थनेन प्रकर्षगानेन वा तिस्रः क्रियन्ते ते मनविशेषाः प्रगाथाः सूक्ताः सुष्टु भणिताः पाङ्गाः प्रगाथा यैस्तेभ्यः । भारतनेतेव भरता भरतगोत्रोद्भवा योद्धारोस्य युद्धस्य भारतं युद्धं तस्य नेतेव युधिष्ठिर इव । पाण्डवा हि भरतगोत्रोद्भवाः । यथा युधिष्ठिरो यज्ञान्ते द्विजेभ्यो दक्षिणा ददौ ॥ अतीत्य मैथिलं युद्धं राघवो नु कृतक्रतुः । प्रापातेतरतिथ्यां स पूर्त चक्रे महासरः ॥ ११४ ॥ ११४. स राजा सहस्रलिङ्गाख्यं महासरः पूर्त चक्रेकारयत् । वापीकूपतडागानि देवतायतनानि च । आरामानप्रदानानि पूर्तमाः प्रचक्षते ॥ १बी तुः । प्रपातेर. १बी पितृव्य । उषस । ई. सी पित्र्यः । उ. २ बी सी वृत्या. ३ बी कैः । प्रोष्ठ'. सी कैः । पोष्ट'. ४ ए बी लाते स. ५ बी क्षरंछ. ६ सी ग्रन्थ्यने. ७बी गादि दे'. ८ बी चक्ष्यते. -
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy