SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ [ है० ६.२.१०९.] पञ्चदशः सर्गः । २५३ ११०. शुनो वायुः सीर आदित्यस्तौ देवते एषां तानि शुनोसीर्याणि सूक्तानि मत्रान् यथा शुनासीरीयो वाय्वादित्यदेवतपुरुषः शृणोत्येवं स राजाशृणोत् । वास्तोष्पतिर्वास्तुदेवता देवता येषां तानि वास्तोष्पतीयानि । शिष्टं स्पष्टम् ॥ 3 कर्माणि गृहमेध्यानि गृहमेधीयवन्मुदा । नृपो मरुत्वतीयानि मरुत्वत्य इवातनोत् ॥ १११ ॥ १११. गृहमेध्यानि गृहमेधं वास्तुदेवतामुद्दिश्योक्तानीत्यर्थः । मरुत्वानेकोनपञ्चाशन्मरुद्युक्तः शक्रो देवता येषां तानि मरुत्वतीयानि । शिष्टं स्पष्टम् ॥ 1 द्यावापृथिवीयः । द्यावापृथिव्य । शुनासीरीय । शुनासीर्याणि । अग्नीषोमीयः । अग्नीषोम्ये । मरुत्वतीयानि । मरुत्वत्यः । वास्तोष्पतीयानि । वास्तोष्पत्यः । गृहमेधीय । गृहमेध्यानि । इत्यत्र " द्यावा. [ १०८ ] इत्यादिनाईययौ ॥ "" वायव्यर्तव्यपित्र्योषस्यमौष्ठपदिकादिभिः । तं माहाराजिकैचौक्षन्मन्त्रैरवभृथे द्विजाः ॥ ११२ ॥ ११२. अवभृथे यज्ञान्ते द्विजा यज्वानो मत्रैस्तमौक्षन्मन्त्रपूतं स्नानं तस्य चक्रुरित्यर्थः । किंभूतैः । वायव्या वायुदेवता ऋतव्या ऋतुदेवताः पितृव्याः पितृदेवता उषस्याः प्रातः संध्यादेवताः प्रौष्ठपदिकाः प्रोष्ठपदाः पूर्वभद्रपदा उत्तरभद्रपदा देवता येषां ते तथा विशेषणद्वन्द्वे तदादिभिस्तथा माहाराजिकैश्च महाराजदेवविशेषदेवतैश्व ॥ १ बी सी कैश्वोक्ष'. २ सी त्रैरिवभृते द्वि'. ३ ए भृते द्वि'. १ एयुः शीर. २ बी सी 'नाशीर्या . ३ बी सी 'तिवास्तु. "स्तुदैवतदेवता ये'. ५ सीता ये. ६ बी 'नाशीर्या'. ७ मृते . ४ बी सी 'दा दे'. ९. .
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy