________________
२५२
द्व्याश्रयमहाकाव्ये
[जयसिंहः]
चैत्रिकः चैत्र । कार्तिकिक कार्तिक । फाल्गुनिके फाल्गुनः । श्रावणिकत् श्रावणः । अत्र "चैत्री." [ १०० ] इत्यादिनेकण्वा ॥
ऐन्द्र । इत्यत्र "देवता" [ १०१ ] इत्यणे ॥ पैङ्गाक्षीपुत्रीयैः । तार्णबिन्दवीयैः । अन्न “पैङ्गाक्षी०" [१०२] इत्यादिनेयः ॥ शुक्रियैः । अत्र “शुक्रादियः" [ १०३ ] इतीयः ॥ शतरुद्रीय । शतरुद्रियः । अत्र "शत." [ १०४ ] इत्यादिना-ईय-इयौ ॥ अपोनप्तीयकैः । अपोनप्तियम् । अपांनप्त्रीयैः । अपांनप्लियम् । अत्र "अपोनप(पा)द्" [ १०५] इत्यादिना-ईय-ई(इ)यौ ॥
महेन्द्रीयैः । महेन्द्रियम् । अत्र "महेन्द्राद्वा" [ १०६] इति वा-ईय-इयौ । पक्षेण् । माहेन्द्र ॥ काय । सौम्येषु । इत्यत्र "कसोमायण" [ १०७ ] इति व्यण् ॥
स द्यावापृथिवीयो नु द्यावापृथिव्यकर्मणि ।
अग्नीषोम्ये विधावग्नीषोमीयो नूद्यतोभवत् ॥ १०९॥ १०९. द्यावापृथिवीयो नु द्यावापृथिवीदेवतपुरुष इव स राजा द्यावापृथिव्यकर्मणि द्यावापृथिव्यौ देवते उद्दिश्योक्तायां क्रियायां विषय उद्यतोभूत् । एवमुत्तरार्धमपि व्याख्येयम् ॥
शुनासीर्याणि सूक्तानि शुनासीरीयवच्च सः। तथा वास्तोष्पतीयानि वास्तोष्पत्य इवाशृणोत् ॥ ११०॥
१ ए यो भू. २ बी यो मूर्य'.
१एल्गुनिनः. २ सीण् ॥ सद्या'. ३ ए पिङ्गा'. ४ ए द्रीयः । दश. ५ एप्निय । अ. ६एनप . ७ए ययौ. ८ वी यईयौ. ९सी मिल्यो.